Loading...
ऋग्वेद मण्डल - 7 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 35/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या। शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ॥१॥

    स्वर सहित पद पाठ

    शम् । नः॒ । इ॒न्द्रा॒ग्नी इति॑ । भ॒व॒ता॒म् । अवः॑ऽभिः । शम् । नः॒ । इन्द्रा॒वरु॑णा । रा॒तऽह॑व्या । शम् । इन्द्रा॒सोमा॑ । सु॒वि॒ताय॑ । शम् । योः । शम् । नः॒ । इन्द्रा॑पू॒षणा । वाज॑ऽसातौ ॥


    स्वर रहित मन्त्र

    शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या। शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥

    स्वर रहित पद पाठ

    शम्। नः। इन्द्राग्नी इति। भवताम्। अवःऽभिः। शम्। नः। इन्द्रावरुणा। रातऽहव्या। शम्। इन्द्रासोमा। सुविताय। शम्। योः। शम्। नः। इन्द्रापूषणा। वाजऽसातौ ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 35; मन्त्र » 1
    अष्टक » 5; अध्याय » 3; वर्ग » 28; मन्त्र » 1

    अन्वयः - हे जगदीश्वर ! वाजसातौ सुविताय नोऽवोभिस्सहेन्द्राग्नी शं शं रातहव्येन्द्रावरुणा नश्शमिन्द्रासोमा शं योरिन्द्रापूषणा नः शं च भवतां तथा वयं प्रयतेमहि ॥१॥

    पदार्थः -
    (शम्) सुखकारकौ (नः) अस्मभ्यम् (इन्द्राग्नी) विद्युत्पावकौ (भवताम्) (अवोभिः) रक्षणादिभिः (शम्) मङ्गलकारकौ (नः) (अस्मभ्यम्) (इन्द्रावरुणा) विद्युज्जले (रातहव्या) रातं दत्तं हव्यं ग्रहीतुं योग्यं वस्तु याभ्यां तौ (शम्) सुखवर्धकौ (इन्द्रासोमा) विद्युदोषधिगणौ (सुविताय) ऐश्वर्याय (शम्) (योः) सुखनिमित्तौ (शम्) आनन्दप्रदौ (नः) अस्मभ्यम् (इन्द्रापूषणा) विद्युद्वायू (वाजसातौ) सङ्ग्रामे ॥१॥

    भावार्थः - हे जगदीश्वर ! भवत्कृपया विद्वत्सङ्गेन स्वपुरुषार्थेन भवद्रचितायां सृष्टौ वर्त्तमानेभ्यो विद्युदादिपदार्थेभ्यो वयमुपकारं ग्रहीतुं ग्राहयितुमिच्छामस्सोऽयमस्माकं प्रयत्नः सफलः स्यात् ॥१॥

    इस भाष्य को एडिट करें
    Top