Loading...
ऋग्वेद मण्डल - 7 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 36/ मन्त्र 9
    ऋषिः - वसिष्ठः देवता - विश्वेदेवा: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अच्छा॒यं वो॑ मरुतः॒ श्लोक॑ ए॒त्वच्छा॒ विष्णुं॑ निषिक्त॒पामवो॑भिः। उ॒त प्र॒जायै॑ गृण॒ते वयो॑ धुर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥९॥

    स्वर सहित पद पाठ

    अच्छ॑ । अ॒यम् । वः॒ । म॒रु॒तः॒ । श्लोकः॑ । ए॒तु॒ । अच्छ॑ । विष्णु॑म् । नि॒सि॒क्त॒ऽपाम् । अवः॑ऽभिः । उ॒त । प्र॒ऽजायै॑ । गृ॒ण॒ते । वयः॑ । धुः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः। उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥९॥

    स्वर रहित पद पाठ

    अच्छ। अयम्। वः। मरुतः। श्लोकः। एतु। अच्छ। विष्णुम्। निसिक्तऽपाम्। अवःऽभिः। उत। प्रऽजायै। गृणते। वयः। धुः। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥९॥

    ऋग्वेद - मण्डल » 7; सूक्त » 36; मन्त्र » 9
    अष्टक » 5; अध्याय » 4; वर्ग » 2; मन्त्र » 4

    अन्वयः - हे मरुतः ! यथाऽयं वश्श्लोकोऽवोभिस्सह निषिक्तपां विष्णुमच्छैतूत ये गृणते प्रजायै मह्यं च वयोऽच्छ धुः यथा यूयं स्वस्तिभिर्नस्सदा पात तथा युष्मान् वयं सततं रक्षेम ॥९॥

    पदार्थः -
    (अच्छ) (अयम्) (वः) युष्माकम् (मरुतः) विद्वांसो मनुष्याः (श्लोकः) शिक्षिता वाक्। श्लोक इति वाङ्नाम। (निघं०१.११)(एतु) प्राप्नोतु (अच्छा) सम्यक्। अत्र संहितायामिति दीर्घः। (विष्णुम्) व्यापकं परमेश्वरम् (निषिक्तपाम्) यो धर्मे निषिक्तानभिषेकप्राप्तान् पाति रक्षति तम् (अवोभिः) रक्षादिभिः (उत) (प्रजायै) (गृणते) स्तावकाय (वयः) जीवनम् (धुः) दधति (यूयम्) (पात) (स्वस्तिभिः) (सदा) (नः) ॥९॥

    भावार्थः - जिज्ञासुभिः श्रोत्रियान् ब्रह्मविदोऽध्यापकानुपदेशकांश्च प्राप्य परमेश्वरादिविद्याः सङ्गृह्य सर्वदा सर्वेषां रक्षणोन्नतिर्वर्धयितव्येति ॥९॥ अत्र विश्वेदेवकृत्यगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति षट्त्रिंशत्तमं सूक्तं द्वितीयो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top