Loading...
ऋग्वेद मण्डल - 7 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 42/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - विश्वेदेवा: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    प्र ब्र॒ह्माणो॒ अङ्गि॑रसो नक्षन्त॒ प्र क्र॑न्द॒नुर्न॑भ॒न्य॑स्य वेतु। प्र धे॒नव॑ उद॒प्रुतो॑ नवन्त यु॒ज्याता॒मद्री॑ अध्व॒रस्य॒ पेशः॑ ॥१॥

    स्वर सहित पद पाठ

    प्र । ब्र॒ह्माणः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । प्र । क्र॒न्द॒नुः । न॒भ॒न्य॑स्य । वे॒तु॒ । प्र । धे॒नवः॑ । उ॒द॒ऽप्रुतः॑ । न॒व॒न्त॒ । यु॒ज्याता॑म् । अद्री॒ इति॑ । अ॒ध्व॒रस्य॑ । पेशः॑ ॥


    स्वर रहित मन्त्र

    प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु। प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः ॥१॥

    स्वर रहित पद पाठ

    प्र। ब्रह्माणः। अङ्गिरसः। नक्षन्त। प्र। क्रन्दनुः। नभन्यस्य। वेतु। प्र। धेनवः। उदऽप्रुतः। नवन्त। युज्याताम्। अद्री इति। अध्वरस्य। पेशः ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 42; मन्त्र » 1
    अष्टक » 5; अध्याय » 4; वर्ग » 9; मन्त्र » 1

    अन्वयः - हे ब्रह्माणोऽङ्गिरसो विद्वांसो यथा क्रन्दनुर्नभन्यस्याध्वरस्य पेशः प्र वेत्वुदप्रुत इव धेनवोऽध्वरस्य पेशो नवन्त यथाऽद्री अध्वरस्य पेशो प्र युज्यातां तथा विद्यासु भवन्तः प्र नक्षन्त ॥१॥

    पदार्थः -
    (प्र) (ब्रह्माणः) चतुर्वेदविदः (अङ्गिरसः) प्राणा इव सद्विद्यासु व्याप्ताः (नक्षन्त) व्याप्नुवन्तु (प्र) (क्रन्दनुः) आह्वाता (नभन्यस्य) नभस्यन्तरिक्षे पृथिव्यां सुखे वा भवस्य। नभ इति साधारणनाम। (निघं०१.४)(वेतु) व्याप्नोतु प्राप्नोतु (प्र) (धेनवः) दुग्धदात्र्यो गाव इव वाचः (उदप्रुतः) उदकं प्राप्ता नद्य इव (नवन्त) स्तुवन्ति (युज्याताम्) युक्तौ भवतः (अद्री) मेघविद्युतौ (अध्वरस्य) अहिंसनीयस्य व्यवहारस्य (पेशः) सुरूपम् ॥१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये चतुर्वेदविदो विद्वांसोऽहिंसादिलक्षणस्य धर्मस्य स्वरूपं बोधयन्ति ते स्तुत्या भवन्ति ॥१॥

    इस भाष्य को एडिट करें
    Top