ऋग्वेद - मण्डल 7/ सूक्त 44/ मन्त्र 1
द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे। इन्द्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥१॥
स्वर सहित पद पाठद॒धि॒ऽक्राम् । वः॒ । प्र॒थ॒मम् । अ॒श्विना॑ । उ॒षस॑म् । अ॒ग्निम् । सम्ऽइ॑द्धम् । भग॑म् । ऊ॒तये॑ । हु॒वे॒ । इन्द्र॑म् । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्वः॑ ॥
स्वर रहित मन्त्र
दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे। इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः ॥१॥
स्वर रहित पद पाठदधिऽक्राम्। वः। प्रथमम्। अश्विना। उषसम्। अग्निम्। सम्ऽइद्धम्। भगम्। ऊतये। हुवे। इन्द्रम्। विष्णुम्। पूषणम्। ब्रह्मणः। पतिम्। आदित्यान्। द्यावापृथिवी इति। अपः। स्वः ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 44; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 11; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 11; मन्त्र » 1
विषयः - मनुष्यैः सृष्टिविद्यया सुखं वर्धनीयमित्याह ॥
अन्वयः - हे विद्वांसो ! यथोतयेऽहं वः प्रथमं दधिक्रामश्विनोषसं समिद्धमग्निं भगमिन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान् द्यावापृथिवी अपः स्वश्च हुवे तथा मदर्थं यूयमप्येतद्विद्यामादत्त ॥१॥
पदार्थः -
(दधिक्राम्) यो धारकान् क्रामति (वः) युष्मान् (प्रथमम्) आदिमम् (अश्विना) सूर्याचन्द्रमसौ (उषसम्) प्रभातवेलाम् (अग्निम्) पावकम् (समिद्धम्) प्रदीप्तम् (भगम्) ऐश्वर्यम् (ऊतये) धनाढ्याय (हुवे) आददे (इन्द्रम्) विद्युतम् (विष्णुम्) व्यापकं वायुम् (पूषणम्) पुष्टिकरमोषधिगणम् (ब्रह्मणस्पतिम्) ब्रह्माण्डस्य स्वामिनं परमात्मानम् (आदित्यान्) सर्वान् मासान् (द्यावापृथिवी) सूर्यभूमी (अपः) जलम् (स्वः) सुखम् ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा विद्वांस आदितः भूम्यादिविद्यां संगृह्य कार्यसिद्धिं कुर्वन्ति तथा यूयमपि कुरुत ॥१॥
इस भाष्य को एडिट करें