साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 45/ मन्त्र 1
आ दे॒वो या॑तु सवि॒ता सु॒रत्नो॑ऽन्तरिक्ष॒प्रा वह॑मानो॒ अश्वैः॑। हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ निवे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ ॥१॥
स्वर सहित पद पाठआ । दे॒वः । या॒तु॒ । स॒वि॒ता । सु॒ऽरत्नः॑ । अ॒न्त॒रि॒क्ष॒ऽप्राः । वह॑मानः । अश्वैः॑ । हस्ते॑ । दधा॑नः । नर्या॑ । पु॒रूणि॑ । नि॒ऽवे॒शय॑न् । च॒ । प्र॒ऽसु॒वन् । च॒ । भूम॑ ॥
स्वर रहित मन्त्र
आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः। हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम ॥१॥
स्वर रहित पद पाठआ। देवः। यातु। सविता। सुऽरत्नः। अन्तरिक्षऽप्राः। वहमानः। अश्वैः। हस्ते। दधानः। नर्या। पुरूणि। निऽवेशयन्। च। प्रऽसुवन्। च। भूम ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 45; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 12; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 12; मन्त्र » 1
विषयः - पुनर्विद्वांसः किंवत् किं कुर्युरित्याह ॥
अन्वयः - हे मनुष्याः ! सुरत्नस्सविता देवोऽन्तरिक्षप्रा अश्वैर्भूगोलान् वहमानः पुरूणि नर्या दधानो निवेशयन् प्रसुवं याति तथा सर्वमेतत्प्रापयंश्चैश्वर्यं हस्ते दधानो विद्वानायातु तेन सह वयञ्चेदृशा भूम ॥१॥
पदार्थः -
(आ) समन्तात् (देवः) दाता दिव्यगुणः (यातु) आगच्छतु (सविता) सकलैश्वर्यप्रदः (सुरत्नः) शोभनं रत्नं रमणीयं धनं यस्मादस्य वा (अन्तरिक्षप्राः) योऽन्तरिक्षं प्राति व्याप्नोति (वहमानः) प्राप्नुवन् प्रापयन् (अश्वैः) किरणैरिव महद्भिरग्निजलादिभिः (हस्ते) करे (दधानः) धरन् (नर्या) नृभ्यो हितानि (पुरूणि) बहूनि (निवेशयन्) प्रवेशयन् (च) (प्रसुवन्) प्रसुवन्ति यस्मिन् तदैश्वर्यम् (च) (भूम) भवेम ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सूर्यवच्छुभगुणकर्मप्रकाशिता मनुष्यादिहितं कुर्वन्ति ते बह्वैश्वर्यं प्राप्नुवन्ति ॥१॥
इस भाष्य को एडिट करें