साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 48/ मन्त्र 1
ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑। आ वो॒ऽर्वाचः॒ क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयन्तु ॥१॥
स्वर सहित पद पाठऋभु॑ऽक्षणः । वा॒जाः॒ । मा॒दय॑ध्वम् । अ॒स्मे इति॑ । न॒रः॒ । म॒घ॒ऽवा॒नः॒ । सु॒तस्य॑ । आ । वः॒ । अ॒र्वाचः॑ । क्रत॑वः । न । या॒ताम् । विऽभ्वः॑ । रथ॑म् । नर्य॑म् । व॒र्त॒य॒न्तु॒ ॥
स्वर रहित मन्त्र
ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य। आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥१॥
स्वर रहित पद पाठऋभुऽक्षणः। वाजाः। मादयध्वम्। अस्मे इति। नरः। मघऽवानः। सुतस्य। आ। वः। अर्वाचः। क्रतवः। न। याताम्। विऽभ्वः। रथम्। नर्यम्। वर्तयन्तु ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 48; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 15; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 15; मन्त्र » 1
विषयः - अथ विद्वद्भिः किं कर्तव्यमित्याह ॥
अन्वयः - हे ऋभुक्षणो मघवानो विभ्वोऽर्वाचो वाजा नरो ! यूयं क्रतवो न सुतस्य सेवनेनास्मे मादयध्वमायातां वो युष्माकं अस्माकं च नर्यं रथमन्ये वर्तयन्तु ॥१॥
पदार्थः -
(ऋभुक्षणः) महान्तः। ऋभुक्षा इति महन्नाम। (निघं०३.३)। (वाजाः) विज्ञानवन्तः (मादयध्वम्) आनन्दयत (अस्मे) अस्मान् (नरः) नायकाः (मघवानः) बहूत्तमधनयुक्ताः (सुतस्य) निष्पन्नस्य (आ) (वः) युष्माकम् (अर्वाचः) येऽर्वाग्गच्छन्ति ते (क्रतवः) प्रजाः (न) इव (याताम्) गच्छताम् (विभ्वः) सकलविद्यासु व्यापिनः (रथम्) रमणीयम् यानम् (नर्यम्) नृषु साधुम् (वर्त्तयन्तु) ॥१॥
भावार्थः - अत्रोपमालङ्कारः । हे मनुष्या ! ये विद्वांसो युष्मानस्मांश्च विद्याबुद्धिप्रदानेन शिल्पविद्यया चानन्दयन्ति ते सर्वदा प्रशंसनीयाः सन्ति ॥१॥
इस भाष्य को एडिट करें