Loading...
ऋग्वेद मण्डल - 7 के सूक्त 5 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 5/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - वैश्वानरः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः। यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भिः॑ ॥१॥

    स्वर सहित पद पाठ

    प्र । अ॒ग्नये॑ । त॒वसे॑ । भ॒र॒ध्व॒म् । गिर॑म् । दि॒वः । अ॒र॒तये॑ । पृ॒थि॒व्याः । यः । विश्वे॑षाम् । अ॒मृता॑नाम् । उ॒पऽस्थे॑ । वै॒श्वा॒न॒रः । व॒वृ॒धे । जा॒गृ॒वत्ऽभिः॑ ॥


    स्वर रहित मन्त्र

    प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः। यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥१॥

    स्वर रहित पद पाठ

    प्र। अग्नये। तवसे। भरध्वम्। गिरम्। दिवः। अरतये। पृथिव्याः। यः। विश्वेषाम्। अमृतानाम्। उपऽस्थे। वैश्वानरः। ववृधे। जागृवत्ऽभिः ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 5; मन्त्र » 1
    अष्टक » 5; अध्याय » 2; वर्ग » 7; मन्त्र » 1

    अन्वयः - हे मनुष्या ! यो वैश्वानरो जगदीश्वरे दिवः पृथिव्या विश्वेषाममृतानामुपस्थे वावृधे जागृवद्भिरेव गम्यते तस्मै तवसेऽरतयेऽग्नये गिरं प्र भरध्वम् ॥१॥

    पदार्थः -
    (प्र) (अग्नये) परमात्मने (तवसे) बलिष्ठाय (भरध्वम्) (गिरम्) योगसंस्कारयुक्तां वाचम् (दिवः) सूर्यस्य (अरतये) प्राप्ताय (पृथिव्याः) भूमेर्मध्ये (यः) (विश्वेषाम्) सर्वेषाम् (अमृतानाम्) नाशरहितानां जीवानां प्रकृत्यादीनां वा (उपस्थे) समीपे (वैश्वानरः) विश्वेषु नरेषु राजमानः (वावृधे) वर्धयति (जागृवद्भिः) अविद्यानिद्रात उत्थातृभिः ॥१॥

    भावार्थः - यदि सर्वे मनुष्याः सर्वेषां धर्त्तारं योगिभिर्गम्यं परमात्मानमुपासीरंस्तर्हि ते सर्वतो वर्धन्ते ॥१॥

    इस भाष्य को एडिट करें
    Top