साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 52/ मन्त्र 1
आ॒दि॒त्यासो॒ अदि॑तयः स्याम॒ पूर्दे॑व॒त्रा व॑सवो मर्त्य॒त्रा। सने॑म मित्रावरुणा॒ सन॑न्तो॒ भवे॑म द्यावापृथिवी॒ भव॑न्तः ॥१॥
स्वर सहित पद पाठआ॒दि॒त्यासः॑ । अदि॑तयः । स्या॒म॒ । पूः । दे॒व॒ऽत्रा । व॒स॒वः॒ । म॒र्त्य॒ऽत्रा । सने॑म । मि॒त्रा॒व॒रु॒णा॒ । सन॑न्तः । भवे॑म । द्या॒वा॒पृ॒थि॒वी॒ । भव॑न्तः ॥
स्वर रहित मन्त्र
आदित्यासो अदितयः स्याम पूर्देवत्रा वसवो मर्त्यत्रा। सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥१॥
स्वर रहित पद पाठआदित्यासः। अदितयः। स्याम। पूः। देवऽत्रा। वसवः। मर्त्यऽत्रा। सनेम। मित्रावरुणा। सनन्तः। भवेम। द्यावापृथिवी। भवन्तः ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 52; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 19; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 19; मन्त्र » 1
विषयः - पुनर्मनुष्याः कीदृशा भवेयुरित्याह ॥
अन्वयः - हे मनुष्या ! यथा वयं देवत्राऽऽदित्यासोऽदितयः स्याम यथा मर्त्यत्रा वसवस्सन्तस्सनेम पूरिव मित्रावरुणा सनन्तो द्यावापृथिवी इव भवन्तो भवेम तथा यूयमपि भवत ॥१॥
पदार्थः -
(आदित्यासः) मासा इव (अदितयः) अखण्डिताः (स्याम) भवेम (पूः) नगरीव (देवत्रा) देवेषु वर्तमानाः (वसवः) निवसन्तः (मर्त्यत्रा) मर्त्येषूपदेशकाः (सनेम) विभजेम (मित्रावरुणा) प्राणोदानौ (सनन्तः) सेवमानाः (भवेम) (द्यावापृथिवी) सूर्यभूमी इव (भवन्तः) ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! यूयं आप्तविद्वद्वद्वर्तित्वा धार्मिकेषु विद्वत्सु न्युष्य सत्यासत्ये विभज्य सूर्यभूमीवत् परोपकारं कृत्वा विश्वसुखाय प्राणोदानवत् सर्वेषामुन्नतये भवतः ॥१॥
इस भाष्य को एडिट करें