ऋग्वेद - मण्डल 7/ सूक्त 57/ मन्त्र 1
मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदन्ति। ये रे॒जय॑न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया॑सुरु॒ग्राः ॥१॥
स्वर सहित पद पाठमध्वः॑ । वः॒ । नाम॑ । मारु॑तम् । य॒ज॒त्राः॒ । प्र । य॒ज्ञेषु॑ । शव॑सा । म॒द॒न्ति॒ । ये । रे॒जय॑न्ति । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । पिन्व॑न्ति । उत्स॑म् । यत् । अया॑सुः । उ॒ग्राः ॥
स्वर रहित मन्त्र
मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति। ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥१॥
स्वर रहित पद पाठमध्वः। वः। नाम। मारुतम्। यजत्राः। प्र। यज्ञेषु। शवसा। मदन्ति। ये। रेजयन्ति। रोदसी इति। चित्। उर्वी इति। पिन्वन्ति। उत्सम्। यत्। अयासुः। उग्राः ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 57; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 27; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 27; मन्त्र » 1
विषयः - पुनर्मनुष्याः किंवत् किं कुर्युरित्याह ॥
अन्वयः - हे यजत्रा ! य उग्रा विद्युत्सहिता वायवो यद्ये उर्वी रोदसी उत्समिव सर्वं जगत् पिन्वन्ति चिदपि रेजयन्त्ययासुस्तद्वद्ये वो मध्वो नाम यज्ञेषु शवसा मारुतं प्रमदन्ति तान् यूयं विजानीत ॥१॥
पदार्थः -
(मध्वः) मन्यमानाः (वः) युष्माकम् (नाम) (मारुताम्) मरुतां मनुष्याणामिदं कर्म (यजत्राः) सङ्गन्तारः (प्र) (यज्ञेषु) विद्वत्सत्कारादिषु (शवसा) बलेन (मदन्ति) कामयन्ते (ये) (रेजयन्ति) कम्पयन्ति (रोदसी) द्यावापृथिव्यौ (चित्) अपि (उर्वी) बहुपदार्थयुक्ते (पिन्वन्ति) सिञ्चन्ति (उत्सम्) कूपमिव (यत्) ये (अयासुः) प्राप्नुयुः (उग्राः) तेजस्विनः ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये वायवो भूगोलान् भ्रामयन्ति धरन्ति वृष्टिभिस्सिञ्चन्ति तान् विदित्वा विद्वांसः कार्याणि निष्पाद्यानन्दन्तु ॥१॥
इस भाष्य को एडिट करें