Loading...
ऋग्वेद मण्डल - 7 के सूक्त 60 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 60/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - सूर्यः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम्। व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णन्तः॑ ॥१॥

    स्वर सहित पद पाठ

    यत् । अ॒द्य । सू॒र्य॒ । ब्रवः॑ । अना॑गाः । उ॒त्ऽयन् । मि॒त्राय॑ । वरु॑णाय । स॒त्यम् । व॒यम् । दे॒व॒ऽत्रा । अ॒दि॒ते॒ । स्या॒म॒ । तव॑ । प्रि॒यासः॑ । अ॒र्य॒म॒न् । गृ॒णन्तः॑ ॥


    स्वर रहित मन्त्र

    यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम्। वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥१॥

    स्वर रहित पद पाठ

    यत्। अद्य। सूर्य। ब्रवः। अनागाः। उत्ऽयन्। मित्राय। वरुणाय। सत्यम्। वयम्। देवऽत्रा। अदिते। स्याम। तव। प्रियासः। अर्यमन्। गृणन्तः ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 60; मन्त्र » 1
    अष्टक » 5; अध्याय » 5; वर्ग » 1; मन्त्र » 1

    अन्वयः - हे सूर्यादितेऽर्यमन् जगदीश्वर ! यद्योऽनागास्त्वमस्मानुद्यन् सूर्य इव यथा मित्राय वरुणाय सत्यं ब्रवस्तथाऽस्मभ्यं ब्रूहि यतस्स्त्वां देवत्रा गृणन्तो वयं तवाद्य प्रियासस्स्याम ॥१॥

    पदार्थः -
    (यत्) यः (अद्य) (सूर्य) सूर्य इव वर्त्तमान (ब्रवः) वद (अनागाः) अनपराधः (उद्यन्) उदयन् (मित्राय) सख्ये (वरुणाय) श्रेष्ठाय (सत्यम्) यथार्थम् (वयम्) (देवत्रा) देवेषु विद्वत्सु (अदिते) अविनाशिन् (स्याम) (तव) (प्रियासः) प्रियाः (अर्यमन्) न्यायकारिन् (गृणन्तः) स्तुवन्तः ॥१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! भवन्तं सूर्यवत्प्रकाशकं परमात्मानमेवं प्रार्थयन्तु, हे परब्रह्मन् ! भवान्नस्माकमात्मस्वन्तर्यामिरूपेण सत्यं सत्यमुपदिशतु येन तवाज्ञायां वर्तित्वा वयं भवत्प्रिया भवेमेति ॥१॥

    इस भाष्य को एडिट करें
    Top