Loading...
ऋग्वेद मण्डल - 7 के सूक्त 8 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 8/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - अग्निः छन्दः - स्वराट्पङ्क्तिः स्वरः - पञ्चमः

    इ॒न्धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑। नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥१॥

    स्वर सहित पद पाठ

    इ॒न्धे । राजा॑ । सम् । अ॒र्यः । नमः॑ऽभिः । यस्य॑ । प्रती॑कम् । आऽहु॑तम् । घृ॒तेन॑ । नरः॑ । ह॒व्येभिः॑ । ई॒ळ॒ते॒ । स॒ऽबाधः॑ । आ । अ॒ग्निः । अग्रे॑ । उ॒षसा॑म् । अ॒शो॒चि॒ ॥


    स्वर रहित मन्त्र

    इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन। नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥१॥

    स्वर रहित पद पाठ

    इन्धे। राजा। सम्। अर्यः। नमःऽभिः। यस्य। प्रतीकम्। आऽहुतम्। घृतेन। नरः। हव्येभिः। ईळते। सऽबाधः। आ। अग्निः। अग्रे। उषसाम्। अशोचि ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 8; मन्त्र » 1
    अष्टक » 5; अध्याय » 2; वर्ग » 11; मन्त्र » 1

    अन्वयः - ये नरो हव्येभिर्नमोभिस्सह घृतेन यस्याहुतं प्रतीकमीळते स समर्यो राजाऽहं तानिन्धे। यथोषसामग्रे सबाधोऽग्निराशोचि तथाऽहं शत्रूणां सम्मुखे स्वसेनाप्रकाशक उत्साहकश्च भवेयम् ॥१॥

    पदार्थः -
    (इन्धे) प्रदीपयामि (राजा) प्रकाशमानः (समर्यः) युद्धकुशलः (नमोभिः) अन्नादिभिस्सत्कारैर्वा (यस्य) (प्रतीकम्) प्रत्येति येन तत्सैन्यम् (आहुतम्) स्पर्द्धितम् (घृतेन) प्रदीपनेनोदकेनाज्येन वा (नरः) नेतारो मनुष्याः (हव्येभिः) होतुं दातुमर्हैः (ईळते) स्तुवन्ति (सबाधः) बाधेन सह वर्त्तमानः (आ) (अग्निः) पावक इव (अग्रे) पुरस्तात् (उषसाम्) प्रभातानाम् (अशोचि) प्रकाश्यते ॥१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! ये यस्य भृत्या उपकारकाः स्युस्त उपकृतेन सदा सत्करणीयाः ॥१॥

    इस भाष्य को एडिट करें
    Top