Loading...
ऋग्वेद मण्डल - 7 के सूक्त 9 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 9/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अबो॑धि जा॒र उ॒षसा॑मु॒पस्था॒द्धोता॑ म॒न्द्रः क॒वित॑मः पाव॒कः। दधा॑ति के॒तुमु॒भय॑स्य ज॒न्तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ॥१॥

    स्वर सहित पद पाठ

    अबो॑धि । जा॒रः । उ॒षसा॑म् । उ॒पऽस्था॑त् । होता॑ । म॒न्द्रः । क॒विऽत॑मः । पा॒व॒कः । दधा॑ति । के॒तुम् । उ॒भय॑स्य । ज॒न्तोः । ह॒व्या । दे॒वेषु॑ । द्रवि॑णम् सु॒कृत्ऽसु॑ ॥


    स्वर रहित मन्त्र

    अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः। दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु ॥१॥

    स्वर रहित पद पाठ

    अबोधि। जारः। उषसाम्। उपऽस्थात्। होता। मन्द्रः। कविऽतमः। पावकः। दधाति। केतुम्। उभयस्य। जन्तोः। हव्या। देवेषु। द्रविणम् सुकृत्ऽसु ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 9; मन्त्र » 1
    अष्टक » 5; अध्याय » 2; वर्ग » 12; मन्त्र » 1

    अन्वयः - हे मनुष्या ! यथा रात्रेर्जारः सूर्य उषसामुपस्थादुभयस्य जन्तोर्हव्या केतुं द्रविणञ्च देवेषु दधाति तथा होता मन्द्रः कवितमः पावको विद्वान् जन्तोर्हव्या सुकृत्सु देवेषु द्रविणं केतुञ्च दधाति स्वयमबोध्यज्ञान् बोधयति तमेवाध्यापकं विद्वांसं सततं सेवध्वम् ॥१॥

    पदार्थः -
    (अबोधि) बोधयति (जारः) रात्रेर्जरयिता सूर्यः (उषसाम्) प्रातर्वेलानाम् (उपस्थात्) समीपात् (होता) दाता (मन्द्रः) आनन्दयिता (कवितमः) विद्वत्तमः (पावकः) पवित्रीकरः (दधाति) (केतुम्) प्रज्ञाम् (उभयस्य) इहाऽमुत्र भवस्य (जन्तोः) जीवस्य (हव्या) होतुमर्हाणि वस्तूनि (देवेषु) पृथिव्यादिषु विद्वत्सु वा (द्रविणम्) धनं बलं वा (सुकृत्सु) पुण्याऽऽत्मसु ॥१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये विद्वांसो यथा सूर्यो रात्रिं निवार्य्य प्रकाशं जनयति तथाऽविद्यां निवार्य्य विद्यां जनयन्ति ते यथा धार्मिको न्यायाधीशो राजा पुण्यात्मसु प्रेम दधाति तथा शमदमादियुक्तेषु श्रोतृषु प्रीतिं विदध्युः ॥१॥

    इस भाष्य को एडिट करें
    Top