Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1442
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
7

य꣡दी꣢ सु꣣ते꣢भि꣣रि꣡न्दु꣢भिः꣣ सो꣡मे꣢भिः प्रति꣣भू꣡ष꣢थ । वे꣢दा꣣ वि꣡श्व꣢स्य꣣ मे꣡धि꣢रो धृ꣣ष꣢꣫त्तन्त꣣मि꣡देष꣢꣯ते ॥१४४२॥

स्वर सहित पद पाठ

य꣡दि꣢꣯ । सु꣣ते꣡भिः꣢ । इ꣡न्दु꣢꣯भिः । सो꣡मे꣢꣯भिः । प्र꣣तिभू꣡ष꣢थ । प्र꣣ति । भू꣡ष꣢꣯थ । वे꣡द꣢꣯ । वि꣡श्व꣢꣯स्य । मे꣡धि꣢꣯रः । घृ꣣ष꣢त् । त꣡न्त꣢꣯म् । तम् । त꣣म् । इ꣢त् । आ । इ꣣षते ॥१४४२॥


स्वर रहित मन्त्र

यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ । वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ॥१४४२॥


स्वर रहित पद पाठ

यदि । सुतेभिः । इन्दुभिः । सोमेभिः । प्रतिभूषथ । प्रति । भूषथ । वेद । विश्वस्य । मेधिरः । घृषत् । तन्तम् । तम् । तम् । इत् । आ । इषते ॥१४४२॥

सामवेद - मन्त्र संख्या : 1442
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

Meaning -
O learned persons, when Ye worship God through accomplished, intellectual sages. He, the Controller of all, being Wise, knows everything, and fulfil each desire of yours!

इस भाष्य को एडिट करें
Top