Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1678
ऋषिः - वालखिल्यम् (आयुः काण्वः) देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
9

स꣢꣫मिन्द्रो꣣ रा꣡यो꣢ बृह꣣ती꣡र꣢धूनुत꣣ सं꣢ क्षो꣣णी꣢꣫ समु꣣ सू꣡र्य꣢म् । स꣢ꣳ शु꣣क्रा꣢सः꣣ शु꣡च꣢यः꣣ सं꣡ गवा꣢꣯शिरः꣣ सो꣢मा꣣ इ꣡न्द्र꣢ममन्दिषुः ॥१६७८॥

स्वर सहित पद पाठ

स꣢म् । इ꣡न्द्रः꣢꣯ । रा꣡यः꣢꣯ । बृ꣣हतीः꣢ । अ꣣धूनुत । स꣢म् । क्षो꣣णी꣡इति꣢ । सम् । उ꣣ । सू꣡र्य꣢꣯म् । सम् । शु꣣क्रा꣡सः꣢ । शु꣡च꣢꣯यः । सम् । ग꣡वा꣢꣯शिरः । गो । आ꣣शिरः । सो꣡माः꣢꣯ । इ꣡न्द्र꣢꣯म् । अ꣣मन्दिषुः ॥१६७८॥


स्वर रहित मन्त्र

समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् । सꣳ शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥१६७८॥


स्वर रहित पद पाठ

सम् । इन्द्रः । रायः । बृहतीः । अधूनुत । सम् । क्षोणीइति । सम् । उ । सूर्यम् । सम् । शुक्रासः । शुचयः । सम् । गवाशिरः । गो । आशिरः । सोमाः । इन्द्रम् । अमन्दिषुः ॥१६७८॥

सामवेद - मन्त्र संख्या : 1678
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment

Meaning -
God hath granted us mighty stores of wealth. He hath set in motion many planets in the atmosphere as well as the Sun. Celibate, lovely, pure, sinless Yogis, taking the shelter of Vedic knowledge, and controlling their organs, appease God.

इस भाष्य को एडिट करें
Top