Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 458
ऋषिः - गौराङ्गिरसः
देवता - सूर्यः
छन्दः - अतिजगती
स्वरः - निषादः
काण्ड नाम - ऐन्द्रं काण्डम्
5
अ꣣य꣢ꣳ स꣣ह꣢स्र꣣मा꣡न꣢वो दृ꣣शः꣡ क꣢वी꣣नां꣢ म꣣ति꣢꣫र्ज्योति꣣र्वि꣡ध꣢र्म । ब्र꣣ध्नः꣢ स꣣मी꣡ची꣢रु꣣ष꣢सः꣣ स꣡मै꣢रयदरे꣣प꣢सः꣣ स꣡चे꣢त꣣सः स्व꣡स꣢रे मन्यु꣣म꣡न्त꣢श्चि꣣ता꣢ गोः ॥४५८॥
स्वर सहित पद पाठअ꣣य꣢म् । स꣣ह꣡स्र꣢म् । आ꣡न꣢꣯वः । दृ꣣शः꣢ । क꣣वीना꣢म् । म꣣तिः꣢ । ज्यो꣡तिः꣢꣯ । वि꣡ध꣢꣯र्म । वि । ध꣣र्म । ब्रध्नः꣢ । स꣣मी꣡चीः꣢ । स꣣म् । ई꣡चीः꣢꣯ । उ꣣ष꣡सः꣢ । सम् । ऐ꣣रयत् । अरेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स꣡चे꣢꣯तसः । स । चे꣣तसः । स्व꣡स꣢꣯रे । म꣣न्युम꣡न्तः꣢ । चि꣣ताः꣢ । गोः ॥४५८॥
स्वर रहित मन्त्र
अयꣳ सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म । ब्रध्नः समीचीरुषसः समैरयदरेपसः सचेतसः स्वसरे मन्युमन्तश्चिता गोः ॥४५८॥
स्वर रहित पद पाठ
अयम् । सहस्रम् । आनवः । दृशः । कवीनाम् । मतिः । ज्योतिः । विधर्म । वि । धर्म । ब्रध्नः । समीचीः । सम् । ईचीः । उषसः । सम् । ऐरयत् । अरेपसः । अ । रेपसः । सचेतसः । स । चेतसः । स्वसरे । मन्युमन्तः । चिताः । गोः ॥४५८॥
सामवेद - मन्त्र संख्या : 458
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
Meaning -
This God, worshipped by thousands of contemplative sages. Handsome, the sole Object of meditation by the wise. Resplendent, the Nourisher of His manifold subjects, the Infuser of life in all, the Excellent Dweller in the heart during our life’s journey. Immaculate, Learned, nicely impels pure intellects. He is lustrous like the brilliant rays of the sun.