अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 13
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः। दर्विं॒ करि॑क्रतं श्वि॒त्रं द॒र्भेष्व॑सि॒तं ज॑हि ॥
स्वर सहित पद पाठह॒ता: । तिर॑श्चिऽराजय: । निऽपि॑ष्टास: । पृदा॑कव: । दर्वि॑म् । करि॑क्रतम् । श्वि॒त्रम् । द॒र्भेषु॑ । अ॒सि॒तम् । ज॒हि॒ ॥४.१३॥
स्वर रहित मन्त्र
हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः। दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥
स्वर रहित पद पाठहता: । तिरश्चिऽराजय: । निऽपिष्टास: । पृदाकव: । दर्विम् । करिक्रतम् । श्वित्रम् । दर्भेषु । असितम् । जहि ॥४.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 13
विषय - सर्प रूप दोषों के नाश का उपदेश।
पदार्थ -
(तिरश्चिराजयः) तिरछी धारीवाले (पृदाकवः) फुँसकारनेवाले [साँप] (हताः) मार डाले गये और (निपिष्टासः) कुचिल डाले गये [हों]। (दर्भेषु) दाभों में (दर्विम्) फन को (करिक्रतम्) बड़ा करनेवाले, (श्वित्रम्) श्वेत और (असितम्) काले [साँप] को (जहि) मार डाल ॥१३॥
भावार्थ - मनुष्य महाउपद्रवियों को साँपों के समान मारें ॥१३॥
टिप्पणी -
१३−(हताः) नाशिताः (तिरश्चिराजयः) अ० ३।२७।२। तिर्यगवस्थितरेखाः (निपिष्टासः) अत्यन्तचूर्णिताः (पृदाकवः) कुत्सितशब्दाः। सर्पाः (दर्विम्) अ० ४।१४।७। दॄ विदारणे-विन्। सूपचालनपात्रवद्विदारकं फणम् (करिक्रतम्) दाधर्तिदर्धर्ति०। पा० ७।४।६५। करोतेर्यङ्लुकि शतृ। भृशं कुर्वन्तम् (श्वित्रम्) म० ५। श्वेतम् (दर्भेषु) काशेषु (असितम्) म० ५। कृष्णम् (जहि) नाशय ॥