अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 20
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑। स वि॒द्वाञ्ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥
स्वर सहित पद पाठय: । वै । ते इति॑ । वि॒द्यात् । अ॒रणी॒ इति॑ । याभ्या॑म् । नि॒:ऽम॒थ्यते॑ । वसु॑ । स: । वि॒द्वान् । ज्ये॒ष्ठम् । म॒न्ये॒त॒ । स: । वि॒द्या॒त् । ब्राह्म॑णम् । म॒हत् ॥८.२०॥
स्वर रहित मन्त्र
यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु। स विद्वाञ्ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत् ॥
स्वर रहित पद पाठय: । वै । ते इति । विद्यात् । अरणी इति । याभ्याम् । नि:ऽमथ्यते । वसु । स: । विद्वान् । ज्येष्ठम् । मन्येत । स: । विद्यात् । ब्राह्मणम् । महत् ॥८.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 20
विषय - परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थ -
(यः) जो [पुरुष] (वै) निश्चय करके (ते) उन दोनों (अरणी) अरणियों [रगड़ कर अग्नि निकालने की दो लकड़ियों] को (विद्यात्) जान लेवे, (याभ्याम्) जिन दोनों से (वसु) अग्नि (निर्मथ्यते) मथकर निकाला जाता है, (सः) वह (विद्वान्) विद्वान् (ज्येष्ठम्) ज्येष्ठ [सब से बड़े ब्रह्म] को (मन्येत) समझ लेगा, और (सः) वह (महत्) बड़े (ब्राह्मणम्) ब्राह्मण [ब्रह्मज्ञान] को (विद्यात्) जानेगा ॥२०॥
भावार्थ - जैसे दो लकड़ियों को रगड़कर आग निकालते हैं, वैसे ही विद्वान् कार्य-कारण की सूक्ष्मता को समझकर परब्रह्म का ज्ञान प्राप्त करते हैं ॥२०॥
टिप्पणी -
२०−(यः) विद्वान् (वै) निश्चयेन (ते) उभे (विद्यात्) जानीयात् (अरणी) अर्त्तिसृधृ०। उ० २।१०२। ऋ गतौ−अनि। अरणी प्रत्यृत एने अग्निः समरणाज्जायत इति वा-निरु० ५।१०। अग्न्युत्पत्तये मथनी द्वे दारुणी (याभ्याम्) अरणिभ्याम् (निर्मथ्यते) मथनेन निःसार्यते (वसु) विभक्तेर्लुक्। वसुः। अग्निः (सः) (विद्वान्) प्राज्ञः (ज्येष्ठम्) महत्तमं ब्रह्म [मन्येत] जानीयात् (सः) (विद्यात्) [ब्राह्मणम्] ब्रह्मणः परमेश्वराज् जातं विज्ञानम् (महत्) पूजनीयम् ॥