अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 25
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना सप्तपदा शक्वरी
सूक्तम् - शत्रुनिवारण सूक्त
ई॒शां वो॑ म॒रुतो॑ दे॒व आ॑दि॒त्यो ब्रह्म॑ण॒स्पतिः॑। ई॒शां व॒ इन्द्र॑श्चा॒ग्निश्च॑ धा॒ता मि॒त्रः प्र॒जाप॑तिः। ई॒शां व॒ ऋष॑यश्चक्रुर॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठई॒शाम् । व॒: । म॒रुत॑: । दे॒व: । आ॒दि॒त्य: । ब्रह्म॑ण: । पति॑: । ई॒शाम् । व॒: । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । धा॒ता । मि॒त्र: । प्र॒जाऽप॑ति: । ई॒शाम् । व॒: । ऋष॑य: । च॒क्रु॒: । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.२५॥
स्वर रहित मन्त्र
ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः। ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः। ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन्रदिते अर्बुदे तव ॥
स्वर रहित पद पाठईशाम् । व: । मरुत: । देव: । आदित्य: । ब्रह्मण: । पति: । ईशाम् । व: । इन्द्र: । च । अग्नि: । च । धाता । मित्र: । प्रजाऽपति: । ईशाम् । व: । ऋषय: । चक्रु: । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥११.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 25
विषय - राजा और प्रजा के कर्त्तव्य का उपदेश।
पदार्थ -
[हे मनुष्यो !] (मरुतः) शूर लोग, (देवः) विजयी, (आदित्यः) आदित्य [अखण्ड ब्रह्मचारी] और, (ब्रह्मणः प्रतिः) वेद का रक्षक पुरुष (वः) तुम्हारे (ईशाम्) शासक [हुए हैं]। (इन्द्रः) बड़ा ऐश्वर्यवान्, (अग्निः) तेजस्वी, (धाता) धारणकर्ता (च) और (मित्रः) प्रेरक (च) और (प्रजापतिः) प्रजापालक मनुष्य (वः) तुम्हारे (ईशाम्) शासक [हुए हैं]। (ऋषयः) ऋषि लोग [महाज्ञानी पुरुष] (वः) तुम्हारे (ईशां चक्रुः) शासक हुए हैं, [जिन विद्वानों को] (अमित्रेषु) वैरियों पर (समीक्षयन्) दिखाता हुआ, (अर्बुदे) हे अर्बुदि ! [शूर सेनापति राजन्] (तव) अपने (रदिते) तोड़-फोड़ कर्म में [तू वर्तमान हुआ है] ॥२५॥
भावार्थ - जैसे पूर्वकाल में शूर वीर और महर्षियों के सत्सङ्ग से राजा लोग शासनविद्या में चतुर हुए हैं, वैसे ही सब मनुष्य पूर्वजों के अनुकरण से कार्यसिद्धि करें ॥२५॥अन्तिम भाग का मिलान मन्त्र ९ के अन्तिम भाग से करो ॥
टिप्पणी -
२५−(ईशाम्) प्रत्ययश्रवणसामर्थ्यात्, चक्रुरिति अन्ते श्रूयमाणं सर्वत्र संबध्यते। ईशांचक्रुः (वः) अधीगर्थदयेशां कर्मणि। पा० २।३।५२। इति षष्ठी। युष्माकम् (मरुतः) अ० १।२०।१। शूरवीराः पुरुषाः (देवः) विजिगीषुः (आदित्यः) अ० १।९।१। अ+दो अवखण्डने-क्तिन्, अदिति-ण्य। अदितिर्व्रतखण्डराहित्यं यस्य सः। अखण्डव्रती (ब्रह्मणः) वेदस्य (पतिः) पालकः (ईशाम्) (वः) (इन्द्रः) परमैश्वर्यवान् पुरुषः (च) (अग्निः) तेजस्वी (च) (धाता) धाता (मित्रः) प्रेरकः (प्रजापतिः) प्रजापालकः (ईशांचक्रुः) ईश ऐश्वर्ये-लिट्। इजादेश्च गुरुमतोऽनृच्छः। पा० ३।१।३६। आम् प्रत्ययः। आम् प्रत्ययवत् कृञोऽनुप्रयोगस्य। पा० १।३।६३। अनुप्रयुज्यमानस्य करोतेरात्मनेपदाभावश्छान्दसः। ईशांचक्रिरे। ईश्वरा नियन्तारो बभूवुः (वः) (ऋषयः) अ० २।६।१। साक्षात्कृतधर्माणः। अन्यद् गतम् म० ९ ॥