अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 3
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - परोष्णिक्
सूक्तम् - शत्रुनिवारण सूक्त
उत्ति॑ष्ठत॒मा र॑भेथामादानसंदा॒नाभ्या॑म्। अ॒मित्रा॑णां॒ सेना॑ अ॒भि ध॑त्तमर्बुदे ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒म् । आ । र॒भे॒था॒म् । आ॒दा॒न॒ऽसं॒दा॒नाभ्या॑म् । अ॒मित्रा॑णाम् । सेना॑: । अ॒भि । ध॒त्त॒म् । अ॒र्बु॒दे॒ ॥११.३॥
स्वर रहित मन्त्र
उत्तिष्ठतमा रभेथामादानसंदानाभ्याम्। अमित्राणां सेना अभि धत्तमर्बुदे ॥
स्वर रहित पद पाठउत् । तिष्ठतम् । आ । रभेथाम् । आदानऽसंदानाभ्याम् । अमित्राणाम् । सेना: । अभि । धत्तम् । अर्बुदे ॥११.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 3
विषय - राजा और प्रजा के कर्त्तव्य का उपदेश।
पदार्थ -
(अर्बुदे) हे अर्बुदि ! [हे शूर सेनापति राजन् और प्रजागण] तुम दोनों (उत् तिष्ठतम्) खड़े हो जाओ, (आदानसन्दानाभ्याम्) दोनों पकड़ने और बाँधने के यन्त्रों से [युद्ध] (आ रभेथाम्) आरम्भ करो, और (अमित्राणाम्) वैरियों की (सेनाः) सेनाओं को (अभि धत्तम्) तुम दोनो बाँध लो ॥३॥
भावार्थ - सेनापति राजा और सब प्रजागण मिलकर वीरता के साथ अनेक यन्त्रसमूहों से शत्रुओं को घेर लेवें ॥३॥
टिप्पणी -
३−(उत्तिष्ठतम्) उच्चलतम् (आरभेथाम्) युद्धमुपक्रमेथाम् (आदानसन्दानाभ्याम्) आदीयते-गृह्यत अनेनेति आदानं ग्रहणयन्त्रम्, सन्दीयते बध्यते अनेनेति बन्धनयन्त्रम्। ताभ्यां यन्त्राभ्याम् (अमित्राणाम्) शत्रूणाम् (सेनाः) (अभिधत्तम्) युवां बध्नीतम् (अर्बुदे) म० १। हे शूर सेनापते त्वम् हे राजागण त्वं च युवाम् ॥