अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 38
यो वे॒हतं॒ मन्य॑मानो॒ऽमा च॒ पच॑ते व॒शाम्। अप्य॑स्य पु॒त्रान्पौत्रां॑श्च या॒चय॑ते॒ बृह॒स्पतिः॑ ॥
स्वर सहित पद पाठय: । वे॒हत॑म् । मन्य॑मान: । अ॒मा । च॒ । पच॑ते । व॒शाम् । अपि॑ । अ॒स्य॒ । पु॒त्रान् । पौत्रा॑न्। च॒ । या॒चय॑ते । बृह॒स्पति॑: ॥४.३८॥
स्वर रहित मन्त्र
यो वेहतं मन्यमानोऽमा च पचते वशाम्। अप्यस्य पुत्रान्पौत्रांश्च याचयते बृहस्पतिः ॥
स्वर रहित पद पाठय: । वेहतम् । मन्यमान: । अमा । च । पचते । वशाम् । अपि । अस्य । पुत्रान् । पौत्रान्। च । याचयते । बृहस्पति: ॥४.३८॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 38
विषय - वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।
पदार्थ -
(च) और (वशाम्) वशा [कामनायोग्य वेदवाणी] को (वेहतम्) गर्भघातिनी स्त्री [के समान रोगिणी] (मन्यमानः) मानता हुआ (यः) जो पुरुष (अमा) अपने घर में [उसकी निन्दा] (पचते) विख्यात करता है। (बृहस्पतिः) बड़े-बड़े लोकों का स्वामी [परमेश्वर] (अस्य) उस पुरुष के (पुत्रान्) पुत्रों (च) और (पौत्रान्) पौत्रों को (अपि) भी (याचयते) भिखारी बना देता है ॥३८॥
भावार्थ - जो मनुष्य वृथा दोष लगाकर वेदवाणी से अपने सन्तानों को रोकता है, वह उन्हें अविवेकी करके निर्धनी और नीच बनाता है ॥३८॥
टिप्पणी -
३८−(यः) पुरुषः (वेहतम्) म० ३७। गर्भघातिनीस्त्रीतुल्यरोगिणीम् (मन्यमानः) जानन् सन् (अमा) गृहे (च) (पचते) पच व्यक्तीकरणे। व्यक्तीकरोति (वशाम्) कामनीयां वेदवाणीम् (अपि) एव (अस्य) (पुत्रान्) (पौत्रान्) (च) (याचयते) याचृ याच्ञायाम्, णिच्। भिक्षन् करोति। भिक्षयते ॥