अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 4
सूक्त - भरद्वाजः
देवता - आदित्यगणः, वसुगणः, पितरः, अङ्गिरसः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अ॑शी॒तिभि॑स्ति॒सृभिः॑ साम॒गेभि॑रादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः। इ॑ष्टापू॒र्तम॑वतु नः पितॄ॒णामामुं द॑दे॒ हर॑सा॒ दैव्ये॑न ॥
स्वर सहित पद पाठअ॒शी॒तिऽभि॑: । ति॒सृभि॑: । सा॒म॒ऽगेभि॑: । आ॒दि॒त्येभि॑: । वसु॑ऽभि: । अङ्गि॑र:ऽभि: । इ॒ष्टा॒पू॒र्तम् । अ॒व॒तु॒ । न॒: । पि॒तृ॒णाम् । आ । अ॒मुम् । द॒दे॒ । हर॑सा । दैव्ये॑न ॥१२.४॥
स्वर रहित मन्त्र
अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः। इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥
स्वर रहित पद पाठअशीतिऽभि: । तिसृभि: । सामऽगेभि: । आदित्येभि: । वसुऽभि: । अङ्गिर:ऽभि: । इष्टापूर्तम् । अवतु । न: । पितृणाम् । आ । अमुम् । ददे । हरसा । दैव्येन ॥१२.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 4
विषय - सबकी रक्षा के लिये उपदेश।
पदार्थ -
(तिसृभिः) तीन (अशीतिभिः) व्याप्तियों [अर्थात् ईश्वर, जीव और प्रकृति] से (सामगेभिः=०–गैः) मोक्षविद्या [ब्रह्मविद्या] के गानेवाले, (आदित्येभिः=०–त्यैः) सर्वथा दीप्यमान, (वसुभिः) प्रशस्त गुणवाले (अङ्गिरोभिः) ज्ञानी पुरुषों के साथ (पितॄणाम्) रक्षक पिताओं [पिता के समान उपकारियों] के (इष्टापूर्तम्) यज्ञ, वेदाध्ययन, अन्नदानादि पुण्य कर्म (नः) हमें (अवतु) तृप्त करें, (दैव्येन) विद्वानों के सम्बन्धी (हरसा) तेज से (अमुम्) उस [दुष्ट] को (आ+ददे) मैं पकड़ता हूँ ॥४॥
भावार्थ - राजा बहुत से सत्यवादी, सत्यपराक्रमी, सर्वहितैषी, निष्कपटी, विद्वानों की सम्मति और सहाय और बड़े-बड़े पुरुषों के पुण्य कर्मों के अनुकरण और दुष्टों को दण्ड दान से प्रजा में शान्ति स्थापित करके सदा सुखी रहे ॥४॥
टिप्पणी -
४–अशीतिभिः। वसेस्तिः। उ० ४।१८०। इति अशू व्याप्तौ–ति छन्दसि इडागमो दीर्घश्च। अथवा, तुरुस्तुशम्यमः सार्वधातुके। पा० ७।३।९५। इति बाहुलकाद् ईडागमः। व्याप्तिभिः, ईश्वरजीवप्रकृतिरूपाभिः। तिसृभिः। त्रिचतुरोः स्त्रियां तिसृचतसृ। पा० ७।२।९९। इति त्रि शब्दस्य तिसृ इत्यादेशः। त्रिसंख्याकाभिः। सामगेभिः। सातिभ्यां मनिन्मनिणौ। उ० ४।१५३। इति षो नाशे–मनिन्। स्यति नष्टीकरोति पापं दुःखमिति साम, रात्रैर्गीयमानो वेदः। साम+गै–उ। बहुलं छन्दसि। पा० ७।१।१०। इति भिस ऐस्भावो न। सामगैः। वेदपाठिभिः। ब्राह्मणैः। आदित्येभिः। अ० १।९।१। आङ्+दाञ् दाने, दीपी दीप्तौ वा–यक्, निपात्यते। आदातृभिर्ग्रहीतृभिर्गुणानाम्। प्रकाशमानैः। सूर्यवत्तेजस्विभिः। वसुभिः। आ० १।९।१। वस आच्छादने, निवासे, दीप्तौ च–उ प्रत्ययः। श्वसोवसीयश्श्रेयसः। पा० ५।४।८०। वसु शब्दः प्रशस्तवाची–इति भट्टोजिदीक्षितः सिद्धान्तकौमुद्याम्। प्रशस्तैः। श्रेष्ठैः। अङ्गिरोभिः। अङ्गनेरसिरिरुडागमश्च। उ० ४।२३६। इति अगि गतौ–असि, इरुडागमः। अङ्गनशीलैः। व्यापनशीलैः ज्ञानिभिः। महर्षिभिः। इष्टापूर्तम्। इष्टं च पूर्त्तं च द्वयोः समाहारः, पूर्वपददीर्घः। यज देवपूजनदानसङ्गतिकरणेषु, इषु वाञ्छे वा–भावे क्त। इज्यते इष्यते वा यत्तद् इष्टम्। पॄ पालने–क्त। न ध्याख्यापॄमूर्च्छिमदाम्। पा० ८।२।५७। इति तस्य न नत्वम्। यज्ञवेदाध्ययनान्नप्रदानादिपुण्यकर्म। यथा शब्दकल्पद्रुमकोषे। अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम्। आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥१॥ वापीकूपतडागादि देवतायतनानि च। अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते ॥२॥ अवतु। रक्षतु। तर्पयतु। नः। अस्मान्। पितॄणाम्। अ० १।२।१। पालयितॄणाम्। रक्षकानाम्। आददे। गृह्णामि। स्वीकरोमि। अमुम्। तं शत्रुं पूर्वमन्त्रोक्तम्। हरसा। हृञ् हरणे–असुन्। हरो हरतेर्ज्योतिर्हर उच्यते–निरु० ४।१९। हरः क्रोधः–निघ० २।१३। ज्योतिषा। तेजसा। दैव्येन। अ० २।२।२। देव–यञ्। देवसम्बन्धिना ॥