अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्,(पृथक्करणम्) चन्द्रमाः, आयुष्यम्
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - यक्षविबर्हण
हृद॑यात्ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात्पा॒र्श्वाभ्या॑म्। यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वृ॑हामसि ॥
स्वर सहित पद पाठहृद॑यात् । ते॒ । परि॑ । क्लो॒म्न: । हली॑क्ष्णात् । पा॒र्श्वाभ्या॑म् । यक्ष्म॑म् । मत॑स्नाभ्याम् । प्ली॒ह्न: । य॒क्न: । ते॒ । वि । वृ॒हा॒म॒सि॒ ॥३३.३॥
स्वर रहित मन्त्र
हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम्। यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥
स्वर रहित पद पाठहृदयात् । ते । परि । क्लोम्न: । हलीक्ष्णात् । पार्श्वाभ्याम् । यक्ष्मम् । मतस्नाभ्याम् । प्लीह्न: । यक्न: । ते । वि । वृहामसि ॥३३.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 3
विषय - शारीरिक विषय में शरीररक्षा।
पदार्थ -
(ते) तेरे (हृदयात्) हृदय से, (क्लोम्नः) फेफड़े से, (हलीक्ष्णात्) पित्ते से, (पार्श्वाभ्याम् परि) दोनों काँखों [कक्षाओं वा बग़लों] से और (ते) तेरे (मतस्नाभ्याम्) दोनों मतस्नों [गुर्दों] से, (प्लीह्नः) प्लीहा, वा पिलई [तिल्ली] से और (यक्नः) यकृत् [काल खण्ड वा जिगर] से (यक्ष्मम्) क्षयी रोग को (वि वृहामसि=०–मः) हम उखाड़े देते हैं ॥३॥
भावार्थ -
इस मन्त्र में कन्धों के नीचे के अवयवों का वर्णन है। भावार्थ मन्त्र १ के समान है ॥३॥
टिप्पणी -
३–हृदयात्। अ० २।२९।६। वक्षःस्थमांसपिण्डात्। हृदयलक्षणं, यथा। शोणितकफप्रसादजं हृदयं तदाश्रया हि धमन्यः प्राणवहाः। तस्याधोवामतः प्लीहा फुस्फुसश्च दक्षिणतो यकृत् क्लोम च। इति शब्दकल्पद्रुमे सुश्रुतात्। क्लोम्नः। क्लुङ् गतौ मनिन्। फुफ्फुसात्। बाह्वोर्द्वयोर्मध्ये वक्षः, तन्मध्ये हृदयं तत्पार्श्वे क्लोम पिपासास्थानम्। इति श० क० द्रुमे। हलीक्ष्णात्। अवितॄस्तृतन्त्रिभ्य ईः। इति हल विलेखे–ई। क्ष्णु तेजने–ड। हलीं विलेखं क्ष्णौति तेजतीति। मांसपिण्डविशेषात् पित्तात्। पार्श्वाभ्याम्। स्पृशेः श्वण्शुनौ पृ च। उ० ५।२७। इति स्पृश–श्वण् पृ आदेशश्च। कक्षयोरधोभागाभ्याम्। मतस्नाभ्याम्। मत+ष्णिह स्नेहने–ड। मतं ज्ञानं स्नेहयतीति मतस्नम्। उभयपार्श्वसंबन्धाभ्यां वृक्काभ्यां तत्समीपस्थपित्ताधारपात्राभ्यां वा–इति सायणः। ग्रीवाधस्ताद् भागस्थितहृदयोभयपार्श्वस्थे अस्थिनी मतस्ने ताभ्याम् इति महीधरः, शुक्लयजु० २५।८। प्लीह्नः। श्वन्नुक्षन्पूषन्प्लीहन्०। उ० १।१५९। इति प्लिहङ् गतौ–कनिन्। कुक्षिवामपार्श्वस्थमांसखण्डात्। यक्नः। शकेर्ऋतिन्। उ० ४।५८। इति यज देवपूजासङ्गतिकरणदानेषु–ऋतिन्। जस्य कः। यजति संगच्छते यकृत्। पद्दन्नः०। पा० ६।१।६३ इति यकन् आदेशः। कुक्षेर्दक्षिणभागस्थमांसखण्डात्। कालखण्डात्। अन्यद् गतम् ॥