अथर्ववेद - काण्ड 2/ सूक्त 6/ मन्त्र 1
समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या। सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ॥
स्वर सहित पद पाठसमा॑: । त्वा॒ । अ॒ग्ने॒ । ऋ॒तव॑: । व॒र्ध॒य॒न्तु॒ । स॒म्ऽव॒त्स॒रा: । ऋष॑य: । यानि॑ । स॒त्या । सम् । दि॒व्येन॑ । दी॒दि॒हि॒ । रो॒च॒नेन॑ । विश्वा॑: । आ । भा॒हि॒ । प्र॒ऽदिश॑: । चत॑स्र: ॥६.१॥
स्वर रहित मन्त्र
समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या। सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः ॥
स्वर रहित पद पाठसमा: । त्वा । अग्ने । ऋतव: । वर्धयन्तु । सम्ऽवत्सरा: । ऋषय: । यानि । सत्या । सम् । दिव्येन । दीदिहि । रोचनेन । विश्वा: । आ । भाहि । प्रऽदिश: । चतस्र: ॥६.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 6; मन्त्र » 1
विषय - राजनीति से मनुष्य प्रतापी और तेजस्वी होवे।
पदार्थ -
(अग्ने) हे अग्निवत् तेजस्वी विद्वन् ! (समाः) अनुकूल (ऋतवः) ऋतुएँ और (संवत्सराः) वर्ष और (ऋषयः) ऋषिः लोग और (यानि) जो (सत्या=सत्यानि तानि) सत्य कर्म हैं [वे सब] (त्वा) मुझको (वर्धयन्तु) बढ़ावें। (दिव्येन) अपनी दिव्य वा मनोहर (रोचनेन) झलक से (सम्) भले प्रकार (दीदिहि) प्रकाशमान हो और (विश्वाः) सब (चतस्रः) चारों (प्रदिशः) महादिशाओं को (आभाहि) प्रकाशमान कर ॥१॥
भावार्थ - मनुष्य बड़े प्रयत्न से अपने समय को यथावत् उपयोग से अनुकूल बनावें, ऋषि आप्त पुरुषों से मिलकर उत्तम शिक्षा प्राप्त करें और सत्यसंकल्पी, सत्यवादी और सत्यकर्मी सदा रहें। इस प्रकार संसार में उन्नति करें और कीर्त्तिमान् होकर प्रसन्नचित्त रहें ॥१॥ मन्त्र १–५ यजु० अ० २७ मन्त्र १–३, ५, ६ हैं और वहाँ इनके ऋषि अग्नि माने हैं ॥
टिप्पणी -
१–समाः। षम वैक्लव्ये–पचाद्यच्। अविषमाः। साधवः। अनुकूलाः। अग्ने ! हे ज्ञानिन् ! अग्निवत्तेजस्विन्। कार्येषु व्यापनशील वा। ऋतवः। अर्तेश्च तुः। उ० २।७२। इति ऋ गतौ–तु, किच्च। वसन्तादिकालाः। वर्धयन्तु। समर्धयन्तु। संवत्सराः। सम्यग्वसन्ति भूतानि यत्र। संपूर्वाच्चित्। उ० २।७२। इति सम्+वस निवासे–सरन्। चित्त्वादन्तोदात्तः। द्वादशमासात्मकाः कालाः। वर्षाः। ऋषयः। इगुपधात् कित्। उ० ४।१२०। इति ऋष गतौ दर्शने च–इन् किच्च। ऋषति प्राप्नोति सर्वान् मन्त्रान्, ज्ञानेन पश्यति संसारं परमात्मानं च वा स ऋषिः। साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान् सम्प्रादुः–निरु० १।२०। ऋषिर्दर्शनात्–निरु० २।१। साक्षात्कृतधर्माणः। आप्ताः। सन्मार्गदर्शकाः। सत्या। शेर्लोपः। सत्यानि। सत्यकर्माणि। दिव्येन। अ० २।१।२। छन्दसि च। पा० ६।१।६७। इति दिव्–य प्रत्ययः। मनोज्ञेन। दीदिहि। बहुलं छन्दसि पा० २।४।६। दिवु दीप्तौ–शपः श्लुः। तुजादीनां दीर्घो०। पा० ६।१।७। इत्यभ्यासस्य दीर्घः। दीव्य। दीप्यस्व। रोचनेन। रुच दीप्तौ भावे ल्युट्। दीप्त्या। प्रकाशेन। भाहि। भा दीप्तौ अन्तर्भावितण्यर्थः। भाषय। दीपय। प्रदिशः। प्रकृष्टाः प्राच्याद्या महादिशः ॥