Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 106/ मन्त्र 1
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
सूक्तम् - सूक्त-१०६
तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म्। वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥
स्वर सहित पद पाठतव॑ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव॑ । शुष्म॑म् । उ॒त । क्रतु॑म् ॥ वज्र॑म् । शि॒शा॒ति॒ । धि॒षणा॑ । वरे॑ण्यम् ॥१०६.१॥
स्वर रहित मन्त्र
तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम्। वज्रं शिशाति धिषणा वरेण्यम् ॥
स्वर रहित पद पाठतव । त्यत् । इन्द्रियम् । बृहत् । तव । शुष्मम् । उत । क्रतुम् ॥ वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥१०६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 106; मन्त्र » 1
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
[हे परमेश्वर !] (तव) तेरे (त्यत्) उस [प्रसिद्ध] (बृहत्) बड़े (इन्द्रियम्) इन्द्रपन [ऐश्वर्य], (तव) तेरे (शुष्मम्) बल (उत) और (क्रतुम्) बुद्धि और (वरेण्यम्) उत्तम (वज्रम्) वज्र [दण्डसामर्थ्य] को (धिषणा) [तेरे] वाणी (शिशाति) पैना करती है ॥१॥
भावार्थ - मनुष्य परमेश्वर के गुणों को वेद द्वारा निश्चय करके अपना सामर्थ्य बढ़ावें ॥१॥
टिप्पणी -
यह तृच ऋग्वेद में है-८।।७-९; कुछ भेद से सामवेद-उ० ८।१। तृच ११ ॥ १−(तव) (त्यत्) तत्प्रसिद्धम् (इन्द्रियम्) इन्द्रलिङ्गम्। ऐश्वर्यम् (बृहत्) (तव) (शुष्मम्) शोषकबलम् (उत) अपि च (क्रतुम्) प्रज्ञाम् (वज्रम्) शासनसामर्थ्यम् (शिशाति) श्यति। तीक्ष्णीकरोति (धिषणा) वेदरूपा वाणी (वरेण्यम्) वरणीयं श्रेष्ठम् ॥