Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 65/ मन्त्र 1
एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नर॑म्। कृ॒ष्टीर्यो विश्वा॑ अ॒भ्य॒स्त्येक॒ इत् ॥
स्वर सहित पद पाठएतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । सखा॑य: । स्तोम्य॑म् । नर॑म् ॥ कृ॒ष्टी: । य: । विश्वा॑: । अ॒भि । अस्ति॑। एक॑: । इत् ॥६५.१॥
स्वर रहित मन्त्र
एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम्। कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥
स्वर रहित पद पाठएतो इति । नु । इन्द्रम् । स्तवाम । सखाय: । स्तोम्यम् । नरम् ॥ कृष्टी: । य: । विश्वा: । अभि । अस्ति। एक: । इत् ॥६५.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 65; मन्त्र » 1
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
(सखायः) हे मित्रो ! (नु) शीघ्र (एतो) आओ भी, (स्तोम्यम्) स्तुतियोग्य, (नरम्) नेता [प्रेरक] (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] की (स्तवाम) हम स्तुति करें, (यः) जो (एकः) अकेला (इत्) ही (विश्वाः) सब (कृष्टीः) मनुष्यों को (अभि अस्ति) वश में रखता है ॥१॥
भावार्थ - हम सब मिलकर सर्वशक्तिमान् परमात्मा की स्तुति करके आनन्द पावें ॥१॥
टिप्पणी -
मन्त्र १-३ ऋग्वेद में है-गत सूक्त से आगे, ८।२४।१९-२१। म० १ साम०-पू० ४।१०।७ ॥ १−(एतो) आ, इत उ। आगच्छतैव (नु) क्षिप्रम् (इन्द्रम्) परमेश्वरम् (स्तवाम) प्रशंसाम (सखायः) हे सुहृदः (स्तोम्यम्) स्तुतियोग्यम् (नरम्) नेतारम्। प्रेरकम् (कृष्टीः) मनुष्यप्रजाः (विश्वाः) सर्वाः (यः) (अभि अस्ति) अभिभवति। वशीकरोति (एकः) असहायः (इत्) एव ॥