अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 7
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - उष्णिग्बृहतीगर्भा पथ्यापङ्क्तिः
सूक्तम् - दीर्घायुप्राप्ति सूक्त
ज॒रायै॑ त्वा॒ परि॑ ददामि ज॒रायै॒ नि धु॑वामि त्वा। ज॒रा त्वा॑ भ॒द्रा ने॑ष्ट॒ व्य॒१॒॑न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥
स्वर सहित पद पाठज॒रायै॑ । त्वा॒ । परि॑ । द॒दा॒मि॒ । ज॒रायै॑ । नि । धु॒वा॒मि॒ । त्वा॒ । ज॒रा । त्वा॒ । भ॒द्रा । ने॒ष्ट॒ । वि । अ॒न्ये । य॒न्तु॒ । मृ॒त्यव॑: । यान् । आ॒हु: । इत॑रान् । श॒तम् ॥११.७॥
स्वर रहित मन्त्र
जरायै त्वा परि ददामि जरायै नि धुवामि त्वा। जरा त्वा भद्रा नेष्ट व्यन्ये यन्तु मृत्यवो यानाहुरितरान्छतम् ॥
स्वर रहित पद पाठजरायै । त्वा । परि । ददामि । जरायै । नि । धुवामि । त्वा । जरा । त्वा । भद्रा । नेष्ट । वि । अन्ये । यन्तु । मृत्यव: । यान् । आहु: । इतरान् । शतम् ॥११.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 7
विषय - रोग नाश करने के लिये उपदेश।
पदार्थ -
[हे प्राणी !] (त्वा) तुझे (जरायै) स्तुति पाने के लिये (परि) सब प्रकार (ददामि) दान करता हूँ। (जरायै) स्तुति के लिये (त्वा) तेरे (नि धुवामि) निहोरे करता हूँ [अथवा, तुझे झकझोरता हूँ] (जरा) स्तुति (त्वा) तुझे (भद्रा=भद्राणि) अनेक सुख (नेष्ट) पहुँचावे। (अन्ये) दूसरे (मृत्यवः) मृत्यु के कारण (वि यन्तु) उलटे चले जावें, (यान्) जिन (इतरान्) कामनानाशक [मृत्युओं] को (शतम्) सौ प्रकार का (आहुः) बतलाते हैं ॥७॥
भावार्थ - मनुष्य कभी नम्र, कभी कठोर होकर स्तुति के लिये अपनी आत्मा लगावे और निर्धनता, रोगादि मृत्यु के कारणों को हटाकर सुखी रहे ॥७॥
टिप्पणी -
७−(जरायै)। षिद्भिदादिभ्योऽङ् पा० ३।३।१०४। इति जॄ स्तुतौ-अङ्, टाप्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः-निरु० १०।८। स्तुतिप्राप्तये। (परि ददामि)। अ० १।३०।२। समर्पयामि। (नि)। आदरे। निश्चये। अधोभागे। (धुवामि)। धूञ् कम्पने, तुदादिः सकर्मकः। कम्पयामि। प्रेरयामि। (त्वा)। प्राणिनम्। (भद्रा)। भद्राणि। मङ्गलानि। (नेष्ट)। लेट्। नयतु प्रापयतु। अन्यद् गतम्-म० ५ ॥