अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 9
सूक्त - भृगुः
देवता - आज्यम्, अग्निः
छन्दः - जगती
सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त
शृ॒तम॒जं शृ॒तया॒ प्रोर्णु॑हि त्व॒चा सर्वै॒रङ्गैः॒ संभृ॑तं वि॒श्वरू॑पम्। स उत्ति॑ष्ठे॒तो अ॑भि॒ नाक॑मुत्त॒मं प॒द्भिश्च॒तुर्भिः॒ प्रति॑ तिष्ठ दि॒क्षु ॥
स्वर सहित पद पाठशृ॒तम् । अ॒जम् । शृ॒तया॑ । प्र । ऊ॒र्णु॒हि॒ । त्व॒चा । सर्वै॑: । अङ्गै॑: । सम्ऽभृ॑तम् । वि॒श्वऽरू॑पम् । स: । उत् । ति॒ष्ठ॒ । इ॒त: । अ॒भि । नाक॑म् । उ॒त्ऽत॒मम् । प॒त्ऽभि: । च॒तु:ऽभि॑: । प्रति॑ । ति॒ष्ठ॒ । दि॒क्षु॒ ॥१४.९॥
स्वर रहित मन्त्र
शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम्। स उत्तिष्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु ॥
स्वर रहित पद पाठशृतम् । अजम् । शृतया । प्र । ऊर्णुहि । त्वचा । सर्वै: । अङ्गै: । सम्ऽभृतम् । विश्वऽरूपम् । स: । उत् । तिष्ठ । इत: । अभि । नाकम् । उत्ऽतमम् । पत्ऽभि: । चतु:ऽभि: । प्रति । तिष्ठ । दिक्षु ॥१४.९॥
अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 9
विषय - ब्रह्म की प्राप्ति का उपदेश।
पदार्थ -
[हे मनुष्य !] (विश्वरूपम्) संपूर्ण रूप से (सर्वैः) सब (अङ्गैः) अङ्गों के साथ (संभृतम्) भले प्रकार पुष्ट, और (शृतम्) परिपक्व [दृढ़ ज्ञानी] (अजम्) जीवात्मा को (शृतया) परिपक्व (त्वचा) विस्तृत शक्ति से (प्र) भले प्रकार (ऊर्णुहि) ढकले। (सः) सो तू (इतः) यहाँ से (उत्तमम्) सर्वोत्तम (नाकम्) सुखस्वरूप परब्रह्म को (अभि= अभिलक्ष्य) लखकर (उत् तिष्ठ) उठ, और (चतुर्भिः पद्भिः) धर्म, अर्थ, काम, मोक्ष चार पदार्थों के सहित (दिक्षु) सब दिशाओं में (प्रतितिष्ठ) प्रतिष्ठित हो ॥९॥
भावार्थ - मनुष्य उपरोक्त रीति से पञ्च भूत और जीवात्मा के विवेक से पक्का ज्ञानी होकर सब प्रकार पुष्ट और परमात्मा में लवलीन होकर धर्म, अर्थ, काम, मोक्ष, की प्राप्ति से संसार भर में प्रतिष्ठावान् होता है ॥९॥
टिप्पणी -
९−(शृतम्) श्रा वा श्रै पाके-क्त। शृतं पाके। पा० ६।१।२७। इति शृभावः। पक्वम्। परिपक्वज्ञानम् (अजम्) म० १। जीवात्मानम् (शृतया) परिपक्वया। दृढया (प्र ऊर्णुहि) ऊर्णुञ् आच्छादने। प्रकर्षेणाच्छादय (त्वचा) तनोतेरनश्च वः। उ० २।६३। इति तनु विस्तारे−चिक्, अनश्च वः। यद्वा, त्वच संवरणे-क्विप्। विस्तृतशक्त्या। ज्ञानावरणेन वा (सर्वैः) अशेषैः (अङ्गैः) अवयवैः (संभृतम्) सम्यक् पुष्टम् (विश्वरूपम्) यथा तथा। सर्वरूपेण। सर्वाकारेण (सः) तादृशः परिपक्वज्ञानः (उत् तिष्ठ) उद्गच्छ (इतः) अस्माद् देशात् (अभि) अभिलक्ष्य (नाकम्) दुःखरहितं परब्रह्म (उत्तमम्) श्रेष्ठम् (पद्भिः) पद स्थ्यैर्ये गतौ च-क्विप्। धर्मार्थकाममोक्षाख्यैः पदार्थैः (चतुर्भिः) (प्रति तिष्ठ) प्रतिष्ठितो भव (दिक्षु) सर्वासु दिशासु ॥