अथर्ववेद - काण्ड 6/ सूक्त 122/ मन्त्र 1
सूक्त - भृगु
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
सूक्तम् - तृतीयनाक सूक्त
ए॒तं भा॒गं परि॑ ददामि वि॒द्वान्विश्व॑कर्मन्प्रथम॒जा ऋ॒तस्य॑। अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॒मनु॒ सं त॑रेम ॥
स्वर सहित पद पाठए॒तम् । भा॒गम् । परि॑ । द॒दा॒मि॒ । वि॒द्वान् । विश्व॑ऽकर्मन् । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ । अ॒स्माभि॑: । द॒त्तम् । ज॒रस॑: । प॒रस्ता॑त् । अच्छि॑न्नम् । तन्तु॑म् । अनु॑ । सम् । त॒रे॒म॒ ॥१२२.१॥
स्वर रहित मन्त्र
एतं भागं परि ददामि विद्वान्विश्वकर्मन्प्रथमजा ऋतस्य। अस्माभिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनु सं तरेम ॥
स्वर रहित पद पाठएतम् । भागम् । परि । ददामि । विद्वान् । विश्वऽकर्मन् । प्रथमऽजा: । ऋतस्य । अस्माभि: । दत्तम् । जरस: । परस्तात् । अच्छिन्नम् । तन्तुम् । अनु । सम् । तरेम ॥१२२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 122; मन्त्र » 1
विषय - आनन्द की प्राप्ति करने का उपदेश।
पदार्थ -
(प्रथमजाः) श्रेष्ठों में प्रसिद्ध, (विद्वान्) विद्वान् मैं (ऋतस्य) सत्य धर्म के (एतम्) इस (भागम्) सेवनीय व्यवहार को (विश्वकर्मन्) जगत् के रचनेवाले विश्वकर्मा परमेश्वर में (परि ददामि) समर्पण करता हूँ। (जरसः) बुढ़ापे से (परस्तात्) दूर देश में (अस्माभिः दत्तम्) अपने दिये हुए (अच्छिन्नम्) बिना टूटे (तन्तुम् अनु) फैले हुए [अथवा वस्त्र में सूत के समान सर्वव्यापक] परब्रह्म के पीछे-पीछे (सम्) यथावत् (तरेम) हम पार करें ॥१॥
भावार्थ - मनुष्य अपने शुभ कर्मों को परमात्मा में समर्पण करके अजर अमर के समान तत्त्वज्ञान प्राप्त करके विद्यादान करें ॥१॥
टिप्पणी -
१−(एतम्) क्रियमाणम् (भागम्) भजनीयं व्यवहारम् (परि ददामि) समर्पयामि (विद्वान्) तत्त्वं जानन् (विश्वकर्मन्) अ० २।३४।३। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तिलोपः। जगत्कर्तरि परमात्मनि (प्रथमजाः) जनसनखन०। पा० ३।२।६७। इति जनी प्रादुर्भावे−विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इत्यात्वम्। प्रथमेषु श्रेष्ठेषु जातः प्रादुर्भूतः (ऋतस्य) सत्यधर्मस्य (अस्माभिः) उपासकैः (दत्तम्) समर्पितं कर्म (जरसः) जरायाः सकाशात् (परस्तात्) अ० ४।१६।४। परस्मिन् दूरे देशे। यावज्जरा न भवेत् तावत्, इत्यर्थः (अच्छिन्नम्) अभिन्नम् (तन्तुम्) अ० २।१।५। विस्तीर्णम्। यद्वा। वस्त्रे सूत्रवत् सर्वव्यापकं ब्रह्म (अनु) अनुलक्ष्य (सम्) सम्यक् (तरेम) पारयेम ॥