Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 2/ मन्त्र 1
सूक्त - अथर्वा
देवता - सोमः, वनस्पतिः
छन्दः - परोष्णिक्
सूक्तम् - जेताइन्द्र सूक्त
इन्द्रा॑य॒ सोम॑मृत्विजः सु॒नोता च॑ धावत। स्तो॒तुर्यो वचः॑ शृ॒णव॒द्धवं॑ च मे ॥
स्वर सहित पद पाठइन्द्रा॑य । सोम॑म् । ऋ॒त्वि॒ज॒: । सु॒नोत॑ । आ । च॒ । धा॒व॒त॒ । स्तो॒तु: । य: । वच॑: । शृ॒णव॑त् । हव॑म् । च॒ । मे॒ ॥२.१॥
स्वर रहित मन्त्र
इन्द्राय सोममृत्विजः सुनोता च धावत। स्तोतुर्यो वचः शृणवद्धवं च मे ॥
स्वर रहित पद पाठइन्द्राय । सोमम् । ऋत्विज: । सुनोत । आ । च । धावत । स्तोतु: । य: । वच: । शृणवत् । हवम् । च । मे ॥२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 2; मन्त्र » 1
विषय - परम ऐश्वर्य पाने का उपदेश।
पदार्थ -
(ऋत्विजः) हे ऋतु-ऋतुओं में यज्ञ करनेवाले पुरुषो ! (इन्द्राय) परम ऐश्वर्यवाले परमात्मा के लिये (सोमम्) अमृत रस [तत्वज्ञान] (सुनोत) निचोड़ो (च) और (आ) अच्छे प्रकार (धावत) शोधो ! (वः) जो परमेश्वर (स्तोतुः) स्तुति करनेवाले (मे) मेरे (वचः) वचन (च) और (हवम्) पुकार को (शृणवत्) सुने ॥१॥
भावार्थ - मनुष्य परमात्मा का तत्त्वज्ञान प्राप्त करके अपना सामर्थ्य बढ़ावें ॥१॥
टिप्पणी -
१−(इन्द्राय) परमैश्वर्यवते जगदीश्वराय (सोमम्) अ० ३।१६।१। अमृतरसम्। तत्त्वबोधम् (ऋत्विजः) ऋत्विग्दधृक्०। पा० ३।२।५९। इति ऋतु+यज देवपूजासंगतिकरणदानेषु−क्विन्। हे ऋतौ ऋतौ याजकाः। देवपूजकाः (सुनोत) अभिषुणुत (आ) समन्तात् (च) (धावत) धावु गतिशुद्ध्योः, णिजर्थः। शोधयत (स्तोतुः) स्तावकस्य (वचः) वाक्यम् (शृणवत्) श्रु श्रवणे, लेटि अडागमः। शृणुयात् (हवम्) आह्वानम् (च) (मे) मदीयम् ॥