Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 44/ मन्त्र 3
सूक्त - विश्वामित्र
देवता - वनस्पतिः
छन्दः - त्रिपदा महाबृहती
सूक्तम् - रोगनाशन सूक्त
रु॒द्रस्य॒ मूत्र॑मस्य॒मृत॑स्य॒ नाभिः॑। वि॑षाण॒का नाम॒ वा अ॑सि पितॄ॒णां मूला॒दुत्थि॑ता वातीकृत॒नाश॑नी ॥
स्वर सहित पद पाठरु॒द्रस्य॑ । मूत्र॑म् । अ॒सि॒ । अ॒मृत॑स्य । नाभि॑: । वि॒ऽसा॒न॒का । नाम॑ । वै । अ॒सि॒ । पि॒तृ॒णाम् । मूला॑त् । उत्थि॑ता । वा॒ती॒कृ॒त॒ऽनाश॑नी ॥४४.३॥
स्वर रहित मन्त्र
रुद्रस्य मूत्रमस्यमृतस्य नाभिः। विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥
स्वर रहित पद पाठरुद्रस्य । मूत्रम् । असि । अमृतस्य । नाभि: । विऽसानका । नाम । वै । असि । पितृणाम् । मूलात् । उत्थिता । वातीकृतऽनाशनी ॥४४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 44; मन्त्र » 3
विषय - रोग के नाश के लिये उपदेश।
पदार्थ -
[हे पुरुष] (रुद्रस्य) रुलानेवाले भीषण क्लेश का (मूत्रम्) छुड़ाने वा बन्ध करनेवाला बल और (अमृतस्य) अमरपन वा मुक्ति का (नाभिः) मध्यस्थ (असि) तू है। (विषाणका) विषाणका, विविध भक्ति का उपदेश करनेवाली (नाम) प्रसिद्ध (पितॄणाम्) पालन करनेवाले गुणों के (मूलात्) मूल से [आदि कारण परमेश्वर से] (उत्थिता) प्रकट हुई और (वातीकृतनाशनी) हिंसा कर्म की नाश करनेवाली शक्ति (वै) निश्चय करके (असि) तू है ॥३॥
भावार्थ - जो मनुष्य अनेक क्लेशों को सहते हैं और परमेश्वर का विश्वास करते हैं, वे ही सब प्रकार का सुख प्राप्त करते हैं ॥३॥ विषाण और विषाणिका ओषधिविशेष भी हैं ॥
टिप्पणी -
३−(रुद्रस्य) रोदेर्णिलुक् च। उ० २।२२। इति रोदयते−रक्। रुद्रो रौतीति सतो रोरूयमाणो द्रवतीति वा रोदयतेर्वा। निरु० १०।५। रोदकस्य भीषणक्लेशस्य (मूत्रम्) सिविमुच्योष्टेरू च। उ० ४।१६३। इति मुच्लृ मोक्षणे−ष्ट्रन्, टेः ऊ। यद्वा, मूङ् बन्धने−ष्ट्रन्। मोचकम्। मावकबन्धकबलम् (अमृतस्य) मोक्षस्य (नाभिः) मध्यस्थानम् (विषाणका) वि+षण सम्भक्तौ−घञ्। आतोऽनुपसर्गे कः। पा० ३।२।३। इति विषाण+कै शब्दे−क। टाप्। उपपदमतिङ्। पा० २।२।१९। इति समासः। विषाणं विविधं सम्भजनं काययति कथयति या सा शक्तिः (नाम) प्रसिद्धौ (वै) निश्चयेन (असि) (पितॄणाम्) पालकगुणानाम् (मूलात्) आदिकारणात् परमेश्वरात् (उत्थिता) प्रादुर्भूता (वातीकृतनाशनी) वातेर्नित्। उ० ५।६। इति वा गतिहिंसनयोः−अति। छान्दसो दीर्घः। वातेर्हिंसायाः कृतस्य कर्मणो नाशयित्री ॥