Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 1
सूक्त - शन्ताति
देवता - विश्वे देवाः
छन्दः - उष्णिग्गर्भा पथ्यापङ्क्तिः
सूक्तम् - सर्परक्षण सूक्त
मा नो॑ देवा॒ अहि॑र्वधी॒त्सतो॑कान्त्स॒हपू॑रुषान्। संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।
स्वर सहित पद पाठमा । न॒: । दे॒वा॒: । अहि॑: । व॒धी॒त् । सऽतो॑कान् । स॒हऽपु॑रुषान् । सम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । न । सम् । य॒त॒म् । नम॑: । दे॒व॒ऽज॒नेभ्य॑: ॥५६.१॥
स्वर रहित मन्त्र
मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान्। संयतं न वि ष्परद्व्यात्तं न सं यमन्नमो देवजनेभ्यः।
स्वर रहित पद पाठमा । न: । देवा: । अहि: । वधीत् । सऽतोकान् । सहऽपुरुषान् । सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । न । सम् । यतम् । नम: । देवऽजनेभ्य: ॥५६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 56; मन्त्र » 1
विषय - दोष के नाश के लिये उपदेश।
पदार्थ -
(देवाः) हे विद्वानो ! (सतोकान्) सन्तानों सहित और (सहपूरुषान्) पुरुषों सहित (नः) हमको (अहिः) चोट देनेवाला सर्प [सर्प तुल्य अपना दोष] (मा वधीत्) न काटे। वह (संयतम्) मुँदे हुए मुख को (न) न (वि स्परत्) खोले और (व्यात्तम्) खुले मुख को (न) न (सम् यमत्) मूँदे। (देवजनेभ्यः) विद्वान् जनों को (नमः) नमस्कार है ॥१॥
भावार्थ - मनुष्य विद्वान् महात्माओं से शिक्षा पाकर अपने और अपने सन्तानों और बान्धव भृत्य आदि पुरुषों के दोषों को इस प्रकार निर्बल करदें जैसे दुष्ट सर्प को मार-मार कर निर्बल कर देते हैं ॥१॥
टिप्पणी -
१−(मा वधीत्) हन्तेर्लुङि। मा हिंसीत् (नः) अस्मान् (देवाः) हे विद्वांसः (अहिः) आङि श्रिहनिभ्यां हस्वश्च। उ० ४।१३८। इति आङ्+हन हिंसागत्योः−इञ्, स च डित्, आङो ह्रस्वश्च। आहननशीलः सर्पः। सर्पतुल्य आत्मदोषः (सतोकान्) अपत्यैः सहितान् (सहपूरुषान्) बान्धवभृत्यादिसहितान् (संयतम्) संकुचितम् (न) निषेधे (वि) विवृत्य (स्परत्) स्पृ प्रीतिचलनयोः−लेट्। चालयेत् (व्यात्तम्) अच उपसर्गात् तः। पा० ७।४।४७। इति व्याङ् पूर्वाद् दाञो निष्ठायां तकारः। विवृतं मुखम् (न) (संयमत्) संश्लिष्येत् (नमः) सत्कारः (देवजनेभ्यः) विद्वत्पुरुषेभ्यः ॥