Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 63/ मन्त्र 1
सूक्त - द्रुह्वण
देवता - निर्ऋतिः
छन्दः - जगती
सूक्तम् - वर्चोबलप्राप्ति सूक्त
यत्ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ दाम॑ ग्री॒वास्व॑विमो॒क्यं यत्। तत्ते॒ वि ष्या॒म्यायु॑षे॒ वर्च॑से॒ बला॑यादोम॒दमन्न॑मद्धि॒ प्रसू॑तः ॥
स्वर सहित पद पाठयत् । ते॒ । दे॒वी । नि:ऽऋ॑ति: । आ॒ऽब॒बन्ध॑ । दाम॑ । ग्री॒वासु॑ । अ॒वि॒ऽमो॒क्यम् । यत् । तत् । ते॒ । वि । स्या॒मि॒ । आयु॑षे । वर्च॑से । बला॑य । अ॒दो॒म॒दम् । अन्न॑म् । अ॒ध्दि॒। प्रऽसू॑त: ॥६३.१॥
स्वर रहित मन्त्र
यत्ते देवी निरृतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्। तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः ॥
स्वर रहित पद पाठयत् । ते । देवी । नि:ऽऋति: । आऽबबन्ध । दाम । ग्रीवासु । अविऽमोक्यम् । यत् । तत् । ते । वि । स्यामि । आयुषे । वर्चसे । बलाय । अदोमदम् । अन्नम् । अध्दि। प्रऽसूत: ॥६३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 63; मन्त्र » 1
विषय - मोक्षप्राप्ति का उपदेश।
पदार्थ -
[हे मनुष्य !] (देवी) प्राप्त हुई (निर्ऋतिः) अलक्ष्मी ने (यत्) जो (दाम) रस्सी (ते) तेरे (ग्रीवासु) गले में (आबबन्ध) बाँध दी है, (यत्) जो [ज्ञानाद् ऋते, ज्ञान बिना] (अमोक्यम्) न खुलनेवाली है। (तत्) उसको (ते) तेरे (आयुषे) उत्तम जीवन के लिये, (वर्चसे) तेज के लिये और (बलाय) बल के लिये, [ज्ञानेन, ज्ञान से] (वि स्यामि) मैं खोलता हूँ, (प्रसूतः) आगे बढ़ाया गया तू (अदोमदम्) अक्षय हर्ष युक्त (अन्नम्) अन्न का (अद्धि) भोग कर ॥१॥
भावार्थ - मनुष्य अज्ञान के फल दरिद्रता आदि दुःखों को ज्ञान द्वारा पुरुषार्थपूर्वक नाश करके अक्षय आनन्द भोगें ॥१॥
टिप्पणी -
१−(यत्) (ते) तव (देवी) दिवु क्रीडागत्यादिषु−अच्, ङीप्। प्राप्ता (निर्ऋतिः) अ० १।३१।२। निर्ऋतिर्निरमणादृच्छतेः कृच्छ्रापत्तिः। निरु० २।७। अलक्ष्मीः। दरिद्रता कुकर्मफलरूपा (आबबन्ध) आबद्धवती (दाम) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति डुदाञ् दाने−मनिन्। पाशम् (ग्रीवासु) कण्ठगतासु धमनीषु (अमोक्यम्) ऋहलोर्ण्यत्। पा० ३।१।१२४। इति मुच्लृ त्यागे−ण्यत्। चजो कुः घिण्ण्यतोः। पा० ७।३।५२। इति कुत्वम्। अविमोचनीयम् (यत्) (दाम) (तत्) दाम (ते) तव (वि स्यामि) षो अन्तकर्मणि, उपसर्गवशाद् विमोचने। स्यतिरुपसृष्टो विमोचने−निरु० १।१७। विमुञ्चामि ज्ञानेन (आयुषे) उत्तमजीवनाय (वर्चसे) तेजसे (बलाय) पराक्रमाय (अदोमदम्) अ+दसु उपक्षये−क्विप्। अदाः अक्षीणो मदो हर्षो यस्मिन् तत्। अक्षयहर्षयुक्तम् (अन्नम्) अन प्राणने−नन्। जीवनसाधनभोजनम् (अद्धि) भुङ्क्ष्वं (प्रसूतः) प्रेरितः सुकर्मभिः ॥