Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 104/ मन्त्र 1
कः पृश्निं॑ धे॒नुं वरु॑णेन द॒त्तामथ॑र्वणे सु॒दुघां॒ नित्य॑वत्साम्। बृह॒स्पति॑ना स॒ख्यं जुषा॒णो य॑थाव॒शं त॒न्वः कल्पयाति ॥
स्वर सहित पद पाठक: । पृश्नि॑म् । धे॒नुम् । वरु॑णेन । द॒त्ताम् । अथ॑र्वणे । सु॒ऽदुघा॑म् ॥ नित्य॑ऽवत्साम् । बृह॒स्पति॑ना । स॒ख्य᳡म् । जु॒षा॒ण: । य॒था॒ऽव॒शम् । त॒न्व᳡: । क॒ल्प॒या॒ति॒ ॥१०९.१॥
स्वर रहित मन्त्र
कः पृश्निं धेनुं वरुणेन दत्तामथर्वणे सुदुघां नित्यवत्साम्। बृहस्पतिना सख्यं जुषाणो यथावशं तन्वः कल्पयाति ॥
स्वर रहित पद पाठक: । पृश्निम् । धेनुम् । वरुणेन । दत्ताम् । अथर्वणे । सुऽदुघाम् ॥ नित्यऽवत्साम् । बृहस्पतिना । सख्यम् । जुषाण: । यथाऽवशम् । तन्व: । कल्पयाति ॥१०९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 104; मन्त्र » 1
विषय - वेदविद्या के प्रचार का उपदेश।
पदार्थ -
(कः) प्रकाशमान [प्रजापति मनुष्य] (बृहस्पतिना) बड़े-बड़े लोकों के स्वामी [परमेश्वर] के साथ (यथावशम्) इच्छानुसार [अपने] (तन्वः) शरीर की (सख्यम्) मित्रता का (जुषाणः) सेवन करता हुआ, (अथर्वणे) निश्चल स्वभाववाले पुरुष को (वरुणेन) श्रेष्ठ परमात्मा करके (दत्ताम्) दी हुई, (सुदुघाम्) अत्यन्त पूरण करनेवाली, (नित्यवत्साम्) नित्य उपदेश करनेवाली, (पृश्निम्) प्रश्न करने योग्य (धेनुम्) वाणी [वेदवाणी] को (कल्पयाति) समर्थ करे ॥१॥
भावार्थ - मनुष्य परमेश्वर की दी हुई कल्याणी वेदवाणी को ईश्वरभक्ति के साथ संसार में फैलावें ॥१॥
टिप्पणी -
१−(कः) गतसूक्ते व्याख्यातः। प्रकाशमानः प्रजापतिः पुरुषः (पृश्निम्) घृणिपृश्निपार्ष्णि०। उ० ४।५२। प्रच्छ ज्ञीप्सायाम्-नि। प्रष्टव्याम् (धेनुम्) अ० ३।१०।१। वाचम्-निघ० १।११। वेदवाणीम् (वरुणेन) श्रेष्ठेन परमेश्वरेण (दत्ताम्) (अथर्वणे) अ० ४।३७।१। निश्चलस्वभावाय योगिने (सुदुघाम्) अ० ७।७३।७। सुष्ठु पूरयित्रीम् (नित्यवत्साम्) वृतॄवदिवचिवसि०। उ० ३।६२। वद व्यक्तायां वाचि-स प्रत्ययः। नित्योपदेशिकाम् (बृहस्पतिना) बृहतां लोकानां पालकेन। परमात्मना सह (सख्यम्) मित्रभावम् (जुषाणः) सेवमानः (यथावशम्) यथेच्छम् (तन्वः) शरीरस्य (कल्पयाति) कल्पयतेर्लेटि आडागमः। समर्थयेत् ॥