Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 57/ मन्त्र 1
यदा॒शसा॒ वद॑तो मे विचुक्षु॒भे यद्याच॑मानस्य॒ चर॑तो॒ जनाँ॒ अनु॑। यदा॒त्मनि॑ त॒न्वो मे॒ विरि॑ष्टं॒ सर॑स्वती॒ तदा पृ॑णद्घृ॒तेन॑ ॥
स्वर सहित पद पाठयत् । आ॒ऽशसा॑ । वद॑त: । मे॒ । वि॒ऽचु॒क्षु॒भे । यत् । याच॑मानस्य । चर॑त: । जना॑न् । अनु॑ । यत् । आ॒त्म्ननि॑ । त॒न्व᳡: । मे॒ । विऽरि॑ष्टम् । सर॑स्वती । तत् । आ । पृ॒ण॒त् । घृ॒तेन॑ ॥५९.१॥
स्वर रहित मन्त्र
यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनाँ अनु। यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन ॥
स्वर रहित पद पाठयत् । आऽशसा । वदत: । मे । विऽचुक्षुभे । यत् । याचमानस्य । चरत: । जनान् । अनु । यत् । आत्म्ननि । तन्व: । मे । विऽरिष्टम् । सरस्वती । तत् । आ । पृणत् । घृतेन ॥५९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 57; मन्त्र » 1
विषय - गृहस्थ धर्म का उपदेश।
पदार्थ -
(वदतः मे) मुझ बोलनेवाले का (यत्) जो [मन] (आशसा) किसी हिंसा से (विचुक्षुभे) व्याकुल हो गया है, [अथवा] (जनान् अनु) मनुष्यों के पास (चरतः) चलकर (याचमानस्य) मुझ माँगनेवाले का (यत्) जो [मन व्याकुल हो गया है]। [अथवा] (मे तन्वः) मेरे शरीर के (आत्मनि) आत्मा में (यत् विरिष्टम्) जो कष्ट है, (सरस्वती) विज्ञानयुक्त विद्या (तत्) उसको (घृतेन) प्रकाश वा सारतत्त्व से (आ) भली-भाँति (पृणत्) भर देवे ॥१॥
भावार्थ - मनुष्य अविद्या के कारण से प्राप्त हुए क्लेशों को विद्या द्वारा नाश करें ॥१॥
टिप्पणी -
१−(यत्) मनः (आशसा) शसु हिंसायाम् क्विप्। आशसनेन। आशा−भङ्गेन (वदतः) भाषमाणस्य (मे) मम (विचुक्षुभे) विशेषेण क्षुभितं व्याकुलं बभूव (यत्) मनः (याचमानस्य) प्रार्थयमानस्य (चरतः) गच्छतः (जनान् अनु) जनान् प्रति (यत्) (आत्मनि) स्वस्मिन् (तन्वः) शरीरस्य (मे) मम (विरिष्टम्) रिष्ट हिंसायाम्-क्त। विशेषेण क्लिष्टम् (तत्) दुःखम् (सरस्वती) वाक्-निघ० १।११। विज्ञानवती विद्या (तत्) (आ) समन्तात् (पृणत्) पृण प्रीणने-लेटि, अडागमः। पूरयेत् ॥