अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 13
अ॒ग्नेष्टे॑ प्रा॒णम॒मृता॒दायु॑ष्मतो वन्वे जा॒तवे॑दसः। यथा॒ न रिष्या॑ अ॒मृतः॑ स॒जूरस॒स्तत्ते॑ कृणोमि॒ तदु॑ ते॒ समृ॑ध्यताम् ॥
स्वर सहित पद पाठअ॒ग्ने: । ते॒ । प्रा॒णम् । अ॒मृता॑त् । आयु॑ष्मत: । व॒न्वे॒ । जा॒तऽवे॑दस: । यथा॑ । न । रिष्या॑: । अ॒मृत॑: । स॒ऽजू: । अस॑: । तत् । ते॒ । कृ॒णो॒मि॒ । तत् । ऊं॒ इति॑ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् ॥२.१३॥
स्वर रहित मन्त्र
अग्नेष्टे प्राणममृतादायुष्मतो वन्वे जातवेदसः। यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥
स्वर रहित पद पाठअग्ने: । ते । प्राणम् । अमृतात् । आयुष्मत: । वन्वे । जातऽवेदस: । यथा । न । रिष्या: । अमृत: । सऽजू: । अस: । तत् । ते । कृणोमि । तत् । ऊं इति । ते । सम् । ऋध्यताम् ॥२.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 13
विषय - कल्याण की प्राप्ति का उपदेश।
पदार्थ -
[हे मनुष्य !] (ते) तेरे (प्राणम्) प्राण को (अमृतात्) अमर, (आयुष्मतः) बड़ी आयुवाले, (जातवेदसः) उत्पन्न पदार्थों के जाननेवाले (अग्नेः) अग्नि [सर्वव्यापक परमेश्वर] से (वन्वे) मैं माँगता हूँ। (यथा) जिससे (न रिष्याः) तू न मरे, (सजूः) [उसके साथ] प्रीतिवाला तू (अमृतः) अमर (असः) रहे, मैं (तत्) वह [कर्म] (ते) तेरे लिये (कृणोमि) करता हूँ, (तत् उ) वही (ते) तेरे लिये (सम्) यथावत् (ऋध्यताम्) सिद्ध होवे ॥१३॥
भावार्थ - जो मनुष्य परमेश्वर की आज्ञा और गुरुजनों की शिक्षा में चलते हैं, वे बलवान् होकर सुख भोगते हैं ॥१३॥
टिप्पणी -
१३−(अग्नेः) सर्वव्यापकात् परमेश्वरात् (ते) तव (प्राणम्) जीवनम् (अमृतात्) अमरात् (आयुष्मतः) दीर्घायुर्युक्तात् (वन्वे) अहं याचे (जातवेदसः) उत्पन्नपदार्थज्ञात् (यथा) येन प्रकारेण (न रिष्याः) मा मृथाः (अमृतः) अमरः (सजूः) परमेश्वरेण सह प्रीतिः (तत्) कर्म (ते) तुभ्यम् (कृणोमि) करोमि (तत्) (उ) अवधारणे (ते) तुभ्यम् (सम्) सम्यक् (ऋध्यताम्) सिध्यतु ॥