अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 39
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - अनुष्टुब्गर्भा त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
यद्य॑ज्जा॒या पच॑ति॒ त्वत्परः॑परः॒ पति॑र्वा जाये॒ त्वत्ति॒रः। सं तत्सृ॑जेथां स॒ह वां॒ तद॑स्तु संपा॒दय॑न्तौ स॒ह लो॒कमेक॑म् ॥
स्वर सहित पद पाठयत्ऽय॑त् । जा॒या । पच॑ति । त्वत् । प॒र॒:ऽप॑र: । पति॑: । वा॒ । जा॒ये॒ । त्वत् । ति॒र: । सम् । तत् । सृ॒जे॒था॒म् । स॒ह । वा॒म् । तत् । अ॒स्तु॒ । स॒म्ऽपा॒दय॑न्तौ । स॒ह । लो॒कम् । एक॑म्॥३.३९॥
स्वर रहित मन्त्र
यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः। सं तत्सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥
स्वर रहित पद पाठयत्ऽयत् । जाया । पचति । त्वत् । पर:ऽपर: । पति: । वा । जाये । त्वत् । तिर: । सम् । तत् । सृजेथाम् । सह । वाम् । तत् । अस्तु । सम्ऽपादयन्तौ । सह । लोकम् । एकम्॥३.३९॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 39
Subject - Svarga and Odana
Meaning -
O man, whatever your wife does separately from you, and O woman, whatever your husband does by himself away from you, do all that together with each other. Let all that be jointly yours, one in common, as you are leading your wedded life together in unison as one personality.