Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 1
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - सविता देवता छन्दः - स्वराट्बृहती,ब्राह्मी उष्णिक्, स्वरः - ऋषभः
    6

    इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ऽआप्या॑यध्वमघ्न्या॒ऽइन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वाऽअ॑य॒क्ष्मा मा व॑ स्ते॒नऽई॑शत॒ माघश॑ꣳसो ध्रु॒वाऽअ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून् पा॑हि॥१॥

    स्वर सहित पद पाठ

    इ॒षे। त्वा॒। ऊ॒र्ज्जे। त्वा॒। वा॒यवः॑। स्थ॒। दे॒वः। वः॒। स॒वि॒ता। प्र। अ॒र्प॒य॒तु॒। श्रे॑ष्ठतमा॒येति॒ श्रे॑ष्ठऽतमाय। कर्म्म॑णे। आ। प्या॒य॒ध्व॒म्। अ॒घ्न्याः॒। इन्द्रा॑य। भा॒गं। प्र॒जाव॑ती॒रिति॑। प्र॒जाऽव॑तीः। अ॒न॒मी॒वाः। अ॒य॒क्ष्माः। मा। वः॒। स्ते॒नः। ई॒श॒त॒। मा अ॒घश॑ꣳसः॒ इत्य॒घऽश॑ꣳसः। ध्रुवाः। अस्मिन्। गोप॑ता॒विति॒ गोऽप॑तौ। स्या॒त॒। ब॒ह्वीः। यज॑मानस्य। प॒शून्। पा॒हि॒ ॥१॥


    स्वर रहित मन्त्र

    इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमघ्न्या इन्द्राय भागम्प्रजावतीरनमीवाऽअयक्ष्मा मा व स्तेनऽईशत माघशँसो धु्रवाऽअस्मिन्गोपतौ स्यात बह्वीः यजमानस्य पशून्पाहि ॥


    स्वर रहित पद पाठ

    इषे। त्वा। ऊर्ज्जे। त्वा। वायवः। स्थ। देवः। वः। सविता। प्र। अर्पयतु। श्रेष्ठतमायेति श्रेष्ठऽतमाय। कर्म्मणे। आ। प्यायध्वम्। अघ्न्याः। इन्द्राय। भागं। प्रजावतीरिति। प्रजाऽवतीः। अनमीवाः। अयक्ष्माः। मा। वः। स्तेनः। ईशत। मा अघशꣳसः इत्यघऽशꣳसः। ध्रुवाः। अस्मिन्। गोपताविति गोऽपतौ। स्यात। बह्वीः। यजमानस्य। पशून्। पाहि॥१॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 1
    Acknowledgment

    सपदार्थान्वयः -

    हे मनुष्याः ! अयंसविता सर्वजगदुत्पादकः सकलैश्वर्य्यवान्‌ जगदीश्वरः, देवः=भगवान्‌ सर्वेषां सुखानां दाता, सर्वविद्याद्योतकः, वायव स्थ=यान्यस्माकं वः= युष्माकं चप्राणान्तःकरणेन्द्रियाणि सन्ति तानि (वायवः=सर्वक्रियाप्राप्तिहेतवः स्पर्शगुणा भौतिकाः प्राणादयः) श्रेष्ठतमाय अतिशयेन प्रशस्तः सोऽतिशयितस्तस्मै यज्ञाय कर्मणे कर्तुं योग्यत्वेन सर्वोपकारार्थायप्रार्पयतु प्रकृष्टतया संयोजयतु।

    वयमिषे = अन्नायोत्तमेच्छायैअन्नविज्ञानयोःप्राप्तये सवितारं देवं त्वा=त्वां विज्ञानस्वरूपंपरमेश्वरं तथोर्जे=पराक्रमोत्तमरसप्राप्तये पराक्रमोत्तमरसलाभाय भागम्=भजनीयं सेवनीयंभागानाम्=धनानां ज्ञानानां वा भाजनं त्वा=त्वाम्‌अनन्तपराक्रमानन्दरसघनं सततमाश्रयामः। एवंभूत्वा यूयमाप्यायध्वं वयं चाप्यायामहे।

    हे परमेश्वर ! भवान्‌ कृपयाऽस्माकमिन्द्राय=परमैश्वर्यप्राप्तये परमैश्वर्य्ययोगाय श्रेष्ठतमाय कर्मणेचेमाः प्रजावतीः भूयस्यः प्रजा वर्तन्ते यासु ताः,अनमीवाः अमीवः=-व्याधिर्न विद्यते यासु ताः, अयक्ष्माः न विद्यते यक्ष्मा रोगराजो यासु ताः [अघ्न्याः]=गाः वर्धयितुमर्हा हन्तुमनर्हा गावः, इन्द्रियाणि, पृथिव्यादय:, पशवश्च [एतानि] सदैवप्रार्पयतु।

    हे परमात्मन्‌ ! भवत्कृपयास्माकं मध्ये कश्चिदघशंसः=पापी योऽघं=पापं शंसति सः,स्तेनः=चोरश्च मेशत=कदाचिन्मोत्पद्यतां मेष्टां=मा समर्थो भवतु।तथात्वमस्य यजमानस्य=जीवस्य यः परमेश्वर सर्वोपकारं धर्मं च यजति तस्य विदुषः, पशून्‌गोऽश्वहस्त्यादीन्, श्रियः, प्रजा वा पाहि=सततं रक्षयतो वः=ता गा, इमान् पशूंश्चाघशंसः स्तेनोमेशत=हन्तुं समर्थो न भवेत्‌, यत:--

    अस्मिन् वर्तमाने प्रत्यक्षे गोपतौ=पृथिव्यादिरक्षणमिच्छुकस्य धार्मिक मनुष्यस्य समीपे यो गवांपतिः स्वामी तस्मिन्, बह्वीः=बह्वयो गावो ध्रुवाःनिश्चलसुखहेतवः स्यात=भवेयुः।। १। १।।

    पदार्थः -

    (इषे) अन्नविज्ञानयोः प्राप्तये। इषमित्यन्ननामसु पठितम्॥ निघं० २।७॥ इषतीति गतिकर्मसु पठितम्॥ निघं० २। १४॥ अस्माद्धातोः क्विपि कृते पदं सिध्यति (त्वा) विज्ञानस्वरूपं परमेश्वरम् (ऊर्ज्जे) पराक्रमोत्तमरसलाभाय। ऊर्ग्रसः॥ श० ५।१।२।८॥ (त्वा) अनन्तपराक्रमानन्दरसघनम् (वायवः) सर्वक्रियाप्राप्तिहेतवः स्पर्शगुणा भौतिकाः प्राणादयः। वायुरिति पदनामसु पठितम्॥ निघं० ५।४॥ अनेन प्राप्तिसाधका वायवो गृह्यन्ते। वा गतिगन्धनयोरित्यस्मात् कृवापा०॥ उ० १।१॥ अनेनाप्युक्तार्थो गृह्यते (स्थ) सन्ति। अत्र पुरुषव्यत्ययेन प्रथमपुरुषस्य स्थाने मध्यमपुरुषः। (देवः) सर्वेषां सुखानां दाता, सर्वविद्याद्योतक:। देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा यो देवः सा देववता॥ निरु॰ ७। १५॥ (वः) युष्माकं (सविता) सर्वजगदुत्पादकः सकलैश्वर्य्यवान् जगदीश्वरः (प्रार्पयतु) प्रकृष्टतया संयोजयतु (श्रेष्ठतमाय) अतिशयेन प्रशस्त: सोऽतिशयितस्तस्मै यज्ञाय (कर्म्मणे) कर्तुं योग्यत्वेन सर्वोपकारार्थाय (आप्यायध्वम्) आप्यायामहे वा। अत्र पक्षे व्यत्ययः (अघ्न्याः) वर्धयितुमर्हा हन्तुमनर्हा गाव इन्द्रियाणि पृथिव्यादयः पशवश्च। अघ्न्या इति गोनामसु पठितम्॥ निघं० २।११॥ (इन्द्राय) परमैश्वर्य्ययोगाय (भागम्) सेवनीयं भागानां धनानां ज्ञानानां वा भाजनम् (प्रजावतीः) भूयस्यः प्रजा वर्त्तन्ते यासु ताः। अत्र भूम्न्यर्थ मतुप् (अनमीवाः) अमीवो व्याधिर्न विद्यते यासु ताः। अम रोगे इत्यस्माद्बाहुलकादौणादिक ईवन् प्रत्ययः (अयक्ष्माः) न विद्यते यक्ष्मा रोगराजो यासु ता:। यक्ष इत्यस्मात्। अर्त्तिस्तु०॥ उ० १।१३८॥ अनेन मन्प्रत्ययः (मा) निषेधार्थे (वः) ताः। अत्र पुरुषव्यत्ययः। (स्तेनः) चोरः (ईशत) ईष्टां समर्थो भवतु। अत्र लोडर्थे लङ्। बहुलं छन्दसीति शपो लुगभावः (मा) निषेधार्थे (अघशसः) योऽघं पापं शंसति सः। (ध्रुवाः) निश्चलसुखहेतवः। (अस्मिन्) वर्तमाने प्रत्यक्षे (गोपतौ) यो गवां पतिः स्वामी तस्मिन् (स्यात) भवेयुः (बह्वीः) बह्वयः। अत्र वा छन्दसि॥ अ०६।१।१०६॥ अनेन पूर्वसवर्णदीर्घादेशः (यजमानस्य) यः परमेश्वरं सर्वोपकारं धर्मं च यजति तस्य विदुषः (पशून्) गोऽश्वहस्त्यादीन् श्रियः प्रजा वा। श्रीर्हि पशवः॥ श० १।६।३।३

    भावार्थः -

    [ ऋग्वेदाध्ययनानन्तरं यजुर्वेदाध्ययन-प्रयोजनमाह--अयं सविता देवः=भगवान्‌ वायवःस्थ, श्रेष्ठतमाय कर्मणे प्रार्पयतु]

    भावार्थः-- मनुष्यै: सदैव धर्म्यं पुरुषार्थमाश्रित्यर्ग्वेदाध्ययनेन गुणगुणिनौ ज्ञात्वा सर्वपदार्थानांसंप्रयोगेण पुरुषार्थसिद्धये श्रेष्ठतमाभिः क्रियाभिःयुक्तैर्भवितव्यम्‌।

    [हे परमेश्वर! भवान्‌ कृपयाऽस्माकमिन्द्राय=परमैश्वर्यप्राप्तये श्रेष्ठतमाय कर्मणे चेमाः

    प्रजावतीरनमीवा [अध्न्या:] गाः सदैव प्रार्पयतु]

    यत ईश्वरानुग्रहेण सर्वेषां सुखैश्वर्यस्य वृद्धि:स्यात्, तथा-सम्यक्‌ क्रियया प्रजाया रक्षणशिक्षण सदैव कर्त्तव्ये।

    [अस्माकं मध्ये कश्चिदघशंसः=पापी स्तेनः=चोरश्च मेशत]

    यतो नैव कश्चिद्; रोगाख्यो विघ्नश्चोरश्च प्रबलःकदाचिद् भवेत्‌।

    [अस्मिन्‌ गोपतौ'....बह्वीः=बह्वयो गावो ध्रुवाः स्यात=भवेयुः]

    प्रजाश्च सर्वाणि सुखानि प्राप्नुयुः।

    [त्वमस्य यजमानस्य = जीवस्य पशून्‌ पाहि]

    येनेयं विचित्रा सृष्टी रचिता तस्मै जगदीश्वरायसदैव धन्यवादा वाच्याः। एवं कुर्वतो भवतः परमदयालुरीश्वरः कृपया सदैव रक्षयिष्यतीति मन्तव्यम्‌॥ १। १॥

    भावार्थ पदार्थः -

    भावार्थ पदार्थ:--कर्मणे = क्रियायै। इन्द्राय = सुखैश्वर्यस्य वृद्धये। ईशत--प्रबलो भवेत्‌।

    विशेषः -

    परमेष्ठीप्रजापतिः। सविताईश्वरः। इषेत्वेत्यारभ्यभागपर्यन्तस्यस्वराड्बृहतोछन्दः, मध्यमःस्वरः। अग्रेसर्वस्यब्राह्म्युष्णिक्छन्दः, ऋषभःस्वरः।।

    इस भाष्य को एडिट करें
    Top