Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 11
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - अग्निर्देवता छन्दः - स्वराट् जगती, स्वरः - निषादः
    6

    भू॒ताय॑ त्वा॒ नारा॑तये॒ स्वरभि॒विख्ये॑षं॒ दृꣳह॑न्तां॒ दुर्याः॑ पृथि॒व्यामु॒र्वन्तरि॑क्ष॒मन्वे॑मि। पृ॒थि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्याऽउ॒पस्थेऽग्ने॑ ह॒व्यꣳ र॑क्ष॥११॥

    स्वर सहित पद पाठ

    भू॒ताय॑। त्वा॒। न। अरा॑तये। स्वः॑। अ॒भि॒विख्ये॑ष॒मित्य॑भि॒ऽविख्ये॑षम्। दृꣳह॑न्ताम्। दुर्य्याः॑। पृ॒थि॒व्याम्। उ॒रु। अ॒न्तरि॑क्षम्। अनु। ए॒मि॒। पृ॒थि॒व्याः। त्वा॒। नाभौ॑। सा॒द॒या॒मि॒। अदि॑त्याः। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। अग्ने॑। ह॒व्यम् र॒क्ष॒ ॥११॥


    स्वर रहित मन्त्र

    भूताय त्वा नारातये । स्वरभिवि ख्येषम् । दृँहन्तां दुर्याः पृथिव्याम् । उर्वन्तरिक्षमन्वेमि । पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थे ग्ने हव्यँ रक्ष ॥


    स्वर रहित पद पाठ

    भूताय। त्वा। न। अरातये। स्वः। अभिविख्येषमित्यभिऽविख्येषम्। दृꣳहन्ताम्। दुर्य्याः। पृथिव्याम्। उरु। अन्तरिक्षम्। अनु। एमि। पृथिव्याः। त्वा। नाभौ। सादयामि। अदित्याः। उपस्थ इत्युपऽस्थे। अग्ने। हव्यम् रक्ष॥११॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 11
    Acknowledgment

    सपदार्थान्वयः -

    अहं यं भूताय उत्पनानां प्राणिनां सुखाय अरातये=अदानाय रातिः=दानं न विद्यते यस्मिन् तस्मै शत्रवे, बहुदानकरणार्थं, दारिद्र्यविनाशाय वा अदित्याः विज्ञानदीप्तेर्वेदवाचः सकाशादन्तरिक्षे मेघमण्डलस्य मध्ये उपस्थे समीपे यज्ञं सादयामि स्थापयामि [त्वा]=तं (तम्) कृषिशिल्पादिसाधिनं [न] कदाचिन्न त्यजामि।

    हे विद्वांसो ! भवन्तः पृथिव्यां विस्तृतायां दुर्य्याः गृहाणि दृंहन्तां वर्धयन्ताम्। अहं पृथिव्याः शुद्धाया विस्तृताया भूमेः नाभौ=मध्ये, येषु गृहेषु स्वः सुखमुदकं वा अभिविख्येषम् अभितः सर्वतो विविधं पश्येयम्, यस्यां पृथिव्यां विस्तृतायां भूमौ उरु बहु अन्तरिक्षम् अवकाशं सुखेन निवासार्थं च, अन्वेमि प्राप्नोमि।

    हे अग्ने जगदीश्वर! परमेश्वर! त्वमस्माकं हव्यं दातुं ग्रहीतुं योग्यं क्रियाकौशलं सुखं वा सर्वदा रक्ष पालय। इत्येकोऽन्वयः॥

    अथ द्वितीयमन्वयमाह—

    हे अग्ने=जगदीश्वर ! अहं भूताय उत्पन्नानां प्राणिनां सुखाय अरातये रातिः=दानं न विद्यते यस्मिन् तस्मै शत्रवे बहुदानकरणार्थं, दारिद्र्यविनाशाय वा पृथिव्याः शुद्धाया विस्तृताया भूमेः नाभौ मध्ये ईश्वरत्वो पास्यत्वाभ्यां स्वः=सुखरूपं सुखमुदकं वा [त्वा]=त्वामभिविख्येषम्=प्रकाशयामि अभितः सर्वतो विविधं पश्येयम्।

    भवत्कृपयेमेऽस्माकं दुर्य्याः=गृहादयः पदार्थास्तत्रस्था मनुष्यादयः प्राणिनो दृंहन्ताम्=नित्यं वर्धन्ताम्।

    अहं पृथिव्यां विस्तृतायां भूमौ उरु बहु अन्तरिक्षम्=व्यापकम् अवकाशं सुखेन निवासार्थम् उपस्थे समीपे त्वा=त्वामन्वेमि=नित्यं प्राप्नोमि [न] न कदाचित् त्वा=त्वां त्यजामि। त्वमिदमस्माकं हव्यं दातुं ग्रहीतुं योग्यं क्रियाकौशलं सुखं वा सर्वदा रक्ष पालय॥ इति द्वितीयः

    अथ तृतीयमन्वयमाह--अहं शिल्पविद् यजमानो भूताय उत्पन्नानां प्राणिनां सुखाय अरातये रातिः=दानं न विद्यते यस्मिन् तस्मै शत्रवे, बहुदानकरणार्थं, दारिद्र्यविनाशाय वा पृथिव्याः शुद्धाया विस्तृताया भूमेः नाभौ मध्ये त्वा=तमग्निं होमार्थं शिल्पविद्यार्थं च सादयामि स्थापयामि।

    यतोऽयमग्निरदित्याः=अन्तरिक्षस्य विज्ञानदीप्तेर्वेदवाचः सकाशादन्तरिक्षे मेघमण्डलस्य मध्ये उपस्थे समीपे हुतं द्रव्यं रक्षति, तस्मात् तं पृथिव्यां विस्तृतायां भूमौ स्थापयित्वा उरु बहु अन्तरिक्षम् अवकाशं सुखेन निवासार्थम् अन्वेमि प्राप्नोमि, अत एव त्वा=तं पृथिव्यां विस्तृतायां भूमौ सादयामि स्थापयामि।

    एवं कुर्वन्नहं स्वः सुखमुदकं वा अभिविख्येषम् अभितः सर्वतो विविधं पश्येयम्, तथैवेमे दुर्या:= प्रासादास्तत्स्था मनुष्याश्च, गृहाणि, दृंहन्ताम्=शुभगुणैर्वर्धन्तामिति मत्वा तमिममग्निं [न] कदाचिन्नाहं त्यजामि। इति तृतीयोऽन्वयः॥१।११॥

    पदार्थः -

    :--(भूताय) उत्पन्नानां प्राणिनां सुखाय (त्वा) तं कृषिशिल्पादिसाधिनम् (न) निषेधार्थे (अरातये) रातिर्दानं न विद्यते यस्मिन् तस्मै शत्रवे बहुदानकरणार्थं दारिद्र्यविनाशाय वा (स्वः) सुखमुदकं वा। स्वरिति सुखनामसु पठितम्॥ नि० ३। ६॥ उदकनामसु च॥ १॥ १२॥ (अभिविख्येषम्) अभितः सर्वतो विविधं पश्येयम्। अत्राभिव्योरुपपदे चक्षिङ् इत्यस्याशीर्लिङ्यार्धातुकसंज्ञामाश्रित्य ख्याञ् आदेशः। लिङ्याशिष्यङित्यङ् सार्वधातुकसंज्ञामाश्रित्य च या इत्यस्य इय् आदेशः। सकारलोपाभाव इति। (दृँशः हन्ताम्) दृंहन्तां वर्धयन्ताम्। अत्रान्तर्गतो ण्यर्थः (दुर्य्याः) गृहाणि। दुर्य्या इति गृहनामसु पठितम्॥ निघं० ३।४। (पृथिव्याम्) विस्तृतायां भूमौ (उरु) बहु (अन्तरिक्षम्) अवकाशं सुखेन निवासार्थम् (अनु) क्रियार्थे (एमि) प्राप्नोमि (पृथिव्याः) शुद्धाया विस्तृताया भूमेः (त्वा) तं पूर्वोक्तं यज्ञम् (नाभौ) मध्ये (सादयामि) स्थापयामि (अदित्याः) विज्ञानदीप्तेर्वेदवाचः सकाशादन्तरिक्षे मेघमंडलस्य मध्ये, अदितिर्द्यौरदितिरन्तरिक्षमिति मंत्रप्रामाण्यात्॥ ऋ० १।८।६।१०॥ अदितिरिति वाङ्नामसु पठितम्॥

    निघं० १।११॥ पदनामसु च॥ निघं० ४।१॥ (उपस्थे) समीपे (अग्ने) परमेश्वर! (हव्यम्) दातुं ग्रहीतुं योग्यं क्रियाकौशलं सुखं वा (रक्ष) पालय॥ अयं मंत्रः श० १।१।२।२०-२३ व्याख्यातः॥११॥

    भावार्थः -

    [अहं... भूताय...अदित्या  उपस्थे...सादयामि़]

    अत्र श्लेषालङ्कारः। ईश्वरेण मनुष्य आज्ञाप्यते--हे मनुष्य ! अहं त्वां सर्वेषां भूतानां सुखदानाय पृथिव्यां रक्षयामि।

    [हे विद्वांसो! भवन्तः पृथिव्यां दुर्य्या दृंहन्ताम्=वर्धयन्ताम्,-- गृहेषु स्वरभिविख्येषम्, उर्वन्तरिक्षं चान्वेमि]

    त्वया वेदविद्याधर्मानुष्ठानयुक्तेन पुरुषार्थेन सुन्दराणि सर्वर्तुसुखयुक्तानि सर्वतो विशालावकाशसहितानि च गृहाणि रचयित्वा सुखं प्रापणीयम्।

    [ अहं शिल्पविद्यजमानो=पृथिव्या नाभौ त्वा=तमग्निं होमार्थं शिल्पविद्यार्थं च सादयामि]

    तथा--मत्सृष्टौ यावन्तः पदार्थाः सन्ति तेषां सम्यग्गुणान्वेषणं कृत्वाऽनेका विद्याः प्रत्यक्षीकृत्य तासां रक्षणं प्रचारश्च सदैव संभावनीयः।

    [ हे अग्ने जगदीश्वर! अहं--ईश्वरत्वोपास्यत्वाभ्यां स्व:--सुखरूपं [त्वा] त्वामभिविख्येषम्]

    मनुष्येणात्रैवं मन्तव्यम्सर्वत्राभिव्यापकं सर्वसाक्षिणं सर्वमित्रं सर्वसुखवर्द्धकमुपासितुमर्हं सर्व- शक्तिमन्तं परमेश्वरं ज्ञात्वा,

    [भवत्कृपयेमेऽस्माकं दुर्य्या...दृंहन्ताम्, अहं...त्वामन्वेमि, [न] न कदाचित् त्वां त्यजामि, त्वमिस्माकं हव्यं सर्वदा रक्ष]

    सर्वोपकारो, विविधविद्यावृद्धिधर्मोपस्थापनमधर्माद् दूरे स्थितिः क्रियाकौशलसम्पादनं, यज्ञक्रियानुष्ठानं च कर्त्तव्यमिति॥

    [महीधरं भ्रान्तिमाह--]

    अत्र महीधरेण भ्रान्त्या "अभिविख्येषमिति" पदं 'ख्या प्रकथने' इत्यस्य दर्शनार्थे गृहीतं, तत् धात्वर्थादेव विरुद्धम्॥१।११॥

    भावार्थ पदार्थः -

    भूताय=सर्वेषां भूतानां सुखदानाय। अदित्याः=पृथिव्याः। सादयामि=रक्षयामि। दुर्या: =सुन्दराणि सर्वर्तुसुखयुक्तानि गृहाणि। उरु=विशालम्। अन्तरिक्षम्=अवकाशम्। स्वः=सर्वत्राभिव्यापकं सर्वसाक्षिणं सर्वमित्रं सर्वसुखवर्द्धकमुपासितुमर्हं सर्वशक्तिमन्तं परमेश्वरम्। हव्यम्=क्रियाकौशलसम्पादनम्, यज्ञक्रियानुष्ठानम्॥

    विशेषः -

    परमेष्ठी प्रजापतिः। अग्नि:=ईश्वरः, भौतिकोऽग्निः॥ स्वराड् जगती॥ निषादः॥परमेष्ठी प्रजापतिः। अग्नि:=ईश्वरः, भौतिकोऽग्निः॥ स्वराड् जगती॥ निषादः॥

    इस भाष्य को एडिट करें
    Top