Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 4
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - विष्णुर्देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    6

    सा वि॒श्वायुः॒ सा वि॒श्वक॑र्मा॒ सा वि॒श्वधा॑याः। इन्द्र॑स्य त्वा भा॒गꣳ सोमे॒नात॑नच्मि॒ विष्णो॑ ह॒व्यꣳर॑क्ष॥४॥

    स्वर सहित पद पाठ

    सा। वि॒श्वायु॒रिति॑ वि॒श्वऽआ॑युः। सा। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। सा। विश्वधा॑या॒ इति॑ वि॒श्वऽधा॑याः। इन्द्र॑स्य। त्वा॒। भा॒गं। सोमे॑न। आ। त॒न॒च्मि॒। विष्णो॒ इति॒ वि॒ष्णो॑। ह॒व्यं। र॒क्ष॒ ॥४॥


    स्वर रहित मन्त्र

    सा विश्वायुः सा विश्वकर्मा सा विश्वधायाः । इन्द्रस्य त्वा भागँ सोमेना तनच्मि विष्णो हव्यँ रक्ष ॥


    स्वर रहित पद पाठ

    सा। विश्वायुरिति विश्वऽआयुः। सा। विश्वकर्मेति विश्वऽकर्मा। सा। विश्वधाया इति विश्वऽधायाः। इन्द्रस्य। त्वा। भागं। सोमेन। आ। तनच्मि। विष्णो इति विष्णो। हव्यं। रक्ष॥४॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 4
    Acknowledgment

    सपदार्थान्वयः -

    हे विष्णो != व्यापकेश्वर! वेवेष्टि व्याप्नोति चराचरं विश्वं तत्सम्बुद्धौ, परमेश्वर! भवता या वाग् धार्यते, सा वाग् विश्वायुः पूर्णमायुर्यस्यां सा ग्रहीतव्या, सा शिल्पविद्यासम्पादिका विश्वकर्मा विश्वं=सम्पूर्णं क्रियाकाण्डं सिध्यति यया सा,  सा सम्पूर्णविद्याप्रकाशिका विश्वधायाः या विश्वं सर्वं जगद्विद्यागुणैः सह दधाति सा, अस्ति। तया त्रिविधया गृहीतयैवाहं यमिन्द्रस्य परमेश्वरस्य यज्ञस्य वा भागम्=यज्ञं भजनीयं शुभगुणभाजनं यज्ञं सोमेन शिल्पविद्यया सम्पादितेन रसेनाऽऽनन्देन वा आतनच्मि समन्तात् संकोचयामि= दृढीकरोमि।

    [त्वा] =तं  हव्यम्=यज्ञं पूर्वोक्तयज्ञसम्बन्धि दातुं ग्रहीतुं योग्यं द्रव्यं विज्ञानं वा त्वं सततं रक्ष पालय॥ १।४॥

    पदार्थः -

    (सा) वाक्। वाग् वै यज्ञः॥ श० १। १। ४। ११॥ (विश्वायुः) पूर्णमायुर्यस्यां सा ग्रहीतव्या (सा) शिल्पविद्यासंपादिका (विश्वकर्मा) विश्वं संपूर्णं क्रियाकाण्डं सिध्यति यया सा (सा) संपूर्ण विद्याप्रकाशिका (विश्वधायाः) या विश्वं सर्वं जगद्विद्यागुणैः सह दधाति सा। विश्वोपपदे डुधाञ् धातोरसुन्प्रत्ययः बाहुलकाण्णिच्च (इन्द्रस्य) परमेश्वरस्य यज्ञस्य वा (त्वा) तम्। अत्र पुरुषव्यत्ययः (भागम्) भजनीयं शुभगुणभाजनं यज्ञम् (सोमेन) शिल्पविद्यया सम्पादितेन रसेनानन्देन वा (आ) समन्तात् (तनच्मि) संकोचयामि=दृढीकरोमि (विष्णो) वेवेष्टि व्याप्नोति चराचरं विश्वं तत्संबुद्धौ परमेश्वर (हव्यम्) पूर्वोक्तयज्ञसंबन्धि दातुं ग्रहीतुं योग्यं द्रव्यं विज्ञानं वा (रक्ष) पालय॥ अयं मंत्रः श० १।७।१।१७-२१ व्याख्यातः॥ ४

    भावार्थः -

    [ सा विश्वायुः]

    त्रिविधा वाग् भवति--या ब्रह्मचर्याश्रमे पूर्णविद्यापठनाय पूर्णायुःकरणाय च सेव्यते सा प्रथमा,

    [ सा विश्वकर्मा]

    या गृहाश्रमेऽनेकक्रिययोद्योगसुखप्रापकफला विस्तीर्यते सा द्वितीया,

    [ सा विश्वधायाः]

    या च सर्वमनुष्यैः सर्वमनुष्येभ्यः शरीरात्मसुखवर्धनायेश्वरादि पदार्थ विज्ञानप्रकाशिका वानप्रस्थ- संन्यासाश्रमे खलूपदिश्यते सा तृतीया, न चैनया विना कस्यापि सर्वं सुखं भवितुमर्हति।

    [तया त्रिविधया गृहीतयैवाहं यमिन्द्रस्य भागं=यज्ञं--आतनच्मि]

    अनयैव मनुष्यैः पूर्वोक्तो यज्ञोऽनुष्ठातव्यः, व्यापकेश्वरः स्तोतव्यः प्रार्थनीय उपासनीयश्च भवति।

    [ त्वा=तं हव्यं=यज्ञं त्वं सततं रक्ष]

    अनुष्ठितोऽयं यज्ञो जगति रक्षणहेतुः, प्रेम्णा सत्यभावेन प्रार्थितश्चेश्वरस्तान् सर्वदा रक्षति।

    [ के सुखं प्राप्नुवन्तीत्याह--]

    परन्तु--ये क्रियाकुशला धार्मिकाः परोकारिणो जनाः सन्ति त ईश्वरं धर्मं च विज्ञाय सम्यक् क्रियया साधनेनैहिकं पारत्रिकं च सुखं प्राप्नुवन्ति, नेतरे॥ १। ४॥

    विशेषः -

    परमेष्ठी प्रजापतिः। विष्णु:=व्यापकेश्वरः। अनुष्टुप्। गांधारः॥

    इस भाष्य को एडिट करें
    Top