Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 9
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - विष्णुर्देवता छन्दः - निचृत् त्रिष्टुप्, स्वरः - धैवतः
    5

    अह्रु॑तमसि हवि॒र्धानं॒ दृꣳह॑स्व॒ मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिर्ह्वार्षीत्। विष्णु॑स्त्वा क्रमतामु॒रु वाता॒याप॑हत॒ꣳरक्षो॒ यच्छ॑न्तां॒ पञ्च॑॥९॥

    स्वर सहित पद पाठ

    अह्रु॑तम्। अ॒सि॒। ह॒वि॒र्धान॒मिति॑ हविः॒ऽधान॑म्। दृꣳह॑स्व। मा। ह्वाः॒। मा। ते॒। य॒ज्ञप॑ति॒रिति॑ य॒ज्ञऽप॑तिः। ह्वा॒र्षी॒त्। विष्णुः॑। त्वा॒। क्र॒म॒तां॒। उ॒रु। वाता॒य। अप॑हत॒मित्यप॑ऽहतम्। रक्षः॑। यच्छ॑न्ताम्। पञ्च॑ ॥९॥


    स्वर रहित मन्त्र

    अह्रुतमसि हविर्धानं दृँहस्व मा ह्वार्मा यज्ञपतिर्ह्वार्षीत् । विष्णुस्त्वा क्रमतामुरु वातायापहतँ रक्षो यच्छन्तांम्पञ्च ॥


    स्वर रहित पद पाठ

    अह्रुतम्। असि। हविर्धानमिति हविःऽधानम्। दृꣳहस्व। मा। ह्वाः। मा। ते। यज्ञपतिरिति यज्ञऽपतिः। ह्वार्षीत्। विष्णुः। त्वा। क्रमतां। उरु। वाताय। अपहतमित्यपऽहतम्। रक्षः। यच्छन्ताम्। पञ्च॥९॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 9
    Acknowledgment

    सपदार्थान्वयः -

    हे ऋत्विक् ! त्वं यदग्निना दृंहितमह्नुतं कुटिलतारहितं हविर्धानं हविषां धानं स्थित्यधिकरणम् असि=अस्ति, तद् दृंहस्व वर्धयस्व वर्धयति वा किन्तु तत्कदाचिन्मा ह्वाः=मा त्यजेः। इदं ते= तव यज्ञपतिः पूर्वोक्तस्य यज्ञस्य पति:=पालको दृंहताम्, मा ह्वार्षीत्=मा त्यजतु।

    एवं भवन्तः सर्वे मनुष्याः [पञ्च]=पञ्चभिरुत्क्षेपणादिभिः कर्मभिर्यदग्नौ हूयते तन्नियच्छन्ताम्= निगृह्णन्तु।

    यद् द्रव्यं विष्णुः=व्यापनशीलः सूर्योऽपिहतं विनाशितं रक्षः दुर्गन्धाऽऽदिदुःखजालं यथा स्यात्, तथा उरु बहु वाताय वायोः शुद्धये सुखवृद्धये वा [क्रमताम्]=क्रमयति=चालयति।

     त्वा=तत्सर्वं तद्धोतव्यं द्रव्यं मनुष्या अग्नौ होमद्वारा यच्छन्ताम्=निगृह्णन्तु॥ १। ९॥ 

    पदार्थः -

    --(अह्नुतम्) कुटिलतारहितम् (असि) अस्ति। अत्र व्यत्ययः (हविर्धानम्) हविषां धानं=स्थित्यधिकरणम् (दृंहस्व) वर्धयस्व वर्धयति वा। अत्र पक्षे व्यत्ययः (मा ह्वाः) मा त्यजेः। अत्र लिङर्थे लुङ् (मा) क्रियार्थे निषेधवाची (ते) तव (यज्ञपतिः) पूर्वोक्तस्य यज्ञस्य पतिः=पालकः (ह्वार्षीत्) त्यजतु। अत्र लोडर्थे लुङ् (विष्णुः) व्यापनशीलः सूर्यः (त्वा) तद्धोतव्यं द्रव्यम् (क्रमताम्) चालयति। अत्र लडर्थे लोट् (उरु) बहु। उर्विति बहुनामसु पठितम्॥ निघं० ३। १॥ (वाताय) वायोः शुद्धये सुखवृद्धये वा (अपहतम्) विनाशितम् (रक्षः) दुर्गन्धादिदुःखजालम् (यच्छन्ताम्) निगृह्वन्तु (पञ्च) पञ्चभिरुत्क्षेपणादिभिः कर्मभिः। उत्क्षेपणमवक्षेपणमाकुंचनं प्रसारणं गमनमिति कर्माणि॥ वैशे० १। ७॥ अत्र सुपां सुलुगिति भिसो लुक्॥ अयं मंत्रः श० १। १। २। १२-१६ व्याख्यातः॥ ९॥

    भावार्थः -

    [ हे ऋत्विक् ! त्वं यदग्निना दृंहितमह्रुतं हविर्धानमस्ति, तद् दृंहस्व,  इदं ते यज्ञपतिर्दृंहताम्]

     भावार्थ:--यदा मनुष्याः परस्परं प्रीत्या कुटिलतां विहाय, शिक्षकशिष्या भूत्वा इमामग्निविद्यां विज्ञान क्रियाभ्यां ज्ञात्वाऽनुतिष्ठन्ति, तदा महतीं शिल्पविद्यां सम्पाद्य,

    [ अपहतं रक्षः]

    शत्रुदारिद्र्यनिवारणपुरःसरं सर्वाणि सुखानि प्राप्नुवन्तीति॥ १। ९॥

    भावार्थ पदार्थः -

    रक्षः=शत्रुः, दारिद्र्यम्॥

    विशेषः -

    परमेष्ठी प्रजापतिः। विष्णुः=सूर्यः॥ निचृत् त्रिष्टुप्ः धैवतः॥

    इस भाष्य को एडिट करें
    Top