यजुर्वेद - अध्याय 2/ मन्त्र 29
ऋषिः - वामदेव ऋषिः
देवता - अग्निर्देवता
छन्दः - स्वराट् आर्षी अनुष्टुप्,
स्वरः - गान्धारः
81
अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑। अप॑हता॒ऽअसु॑रा॒ रक्षा॑सि वेदि॒षदः॑॥२९॥
स्वर सहित पद पाठअ॒ग्नये॑। क॒व्य॒वाह॑ना॒येति॑ कव्य॒ऽवाह॑नाय। स्वाहा॑। सोमा॑य। पि॒तृ॒मत॒ इति॑ पितृ॒ऽमते॑। स्वाहा॑। अप॑हता॒ इत्यप॑ऽहताः। असु॑राः। रक्षा॑सि। वे॒दि॒षदः॑। वे॒दि॒सद॑ इति॑ वेदि॒ऽषदः॑ ॥२९॥
स्वर रहित मन्त्र
अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहा अपहताऽअसुरा रक्षाँसि वेदिषदः ॥
स्वर रहित पद पाठ
अग्नये। कव्यवाहनायेति कव्यऽवाहनाय। स्वाहा। सोमाय। पितृमत इति पितृऽमते। स्वाहा। अपहता इत्यपऽहताः। असुराः। रक्षासि। वेदिषदः। वेदिसद इति वेदिऽषदः॥२९॥
विषयः - अथ भौतिकावग्नीषोमौ कीदृशगुणौ वर्तेते इत्युपदिश्यते ॥
सपदार्थान्वयः -
मनुष्यैः कव्यवाहनाय कुवन्ति=शब्दयन्ति सर्वा विद्या ये ते कवयः=क्रान्तदर्शनाः कान्तप्रज्ञाश्च, तेभ्यो हितानि कर्माणि कव्यानि, तानि यो वहति=प्रापयति तस्मै अग्नये अङ्गति=सर्वान् पदार्थान् दन्ध्वा देशान्तरे प्रापयति=तस्मै स्वाहा सुष्टु आह यस्यां सा, पितृमते पितरः=ऋतवो नित्ययुक्ता विद्यन्ते यस्मिन् तस्मै सोमाय सुवन्ति=ऐश्वर्याणि प्राप्नुवन्ति यस्मिन् संसारे तस्मै स्वाहा स्व दधात्यनया सा स्वाहा क्रिया [तां] विधाय ये वेदिषदो ये वेद्यां=पृथिव्यां सीदन्ति ते रक्षांसि परपीडकाः, स्वार्थिनः असुराः अविद्वांसो दुष्टस्वभावाः प्राणिनः ते नित्यमपहताः अपहिंसिताः कार्याः ॥ २ । २९॥
पदार्थः -
(अग्नये) अङ्गति=सर्वान् पदार्थान् दग्ध्वा देशान्तरे प्रापयति तस्मै (कव्यवाहनाय) कुवन्ति= शब्दयन्ति सर्वा विद्या ये ते कवयः क्रान्तदर्शना: क्रान्तप्रज्ञाश्च तेभ्यो हितानि कर्माणि कव्यानि, तानि यो वहति=प्रापयति तस्मै (स्वाहा) सुष्ठु आह यस्यां सा (सोमाय) सुवन्त्यैश्वर्याणि प्राप्नुवन्ति यस्मिन् संसारे तस्मै (पितृमते) पितर=ऋतवो नित्ययुक्ता विद्यन्ते यस्मिन् तस्मै । अत्र नित्ययोगे मतुप् । ऋतवः पितरः । श० २। ४ । २ । २४ ॥ (स्वाहा) स्वं दधात्यनया सा स्वाहा क्रिया (अपहताः) अपहिंसिताः । (असुराः) अविद्वांसो दुष्टस्वभावाः प्राणिनः (रक्षांसि) परपीडकाः, स्वार्थिनः (वेदिषदः) ये वेद्यां पृथिव्यां सीदन्ति ते । यावती वेदिस्तावती पृथिवी ॥ श० १।२।३ । ७ ॥ अयं मन्त्रः श० २।४ । २ । १२-१३ व्याख्यातः ॥ २६ ॥
भावार्थः -
[मनुष्यैः कव्यवाहनायाग्नये स्वाहा]
विद्वद्भिर्युक्त्या संयोजितोऽयमग्नि: शिल्पिनां कार्याणि वहति,
[सोमाय स्वाहा.....वेदिषदो रक्षांसि, असुराः, ते नित्यमपहताः कार्याः]
येन संसारस्योपकारेण सामयिकं सुखं पृथिवीस्थानां दुष्टानां दोषाणां च निवृत्तिः स्यादयं प्रयत्नो निवृत्तिः नित्यं विधेय इति ॥ २।२९॥
भावार्थ पदार्थः -
कव्यवाहनाय=शिल्पिनां कार्यवाहनाय । सोमाय=संसारस्योपकाराय । स्वाहा=सामयिकं सुखम् । वेदिषदः=पृथिवीस्थाः । रक्षांसि=दोषा: । असुराः=दुष्टाः ।
विशेषः -
वामदेवः । अग्निः=भौतिकोऽग्निः ॥ स्वराडार्षी अनुष्टुप् । गान्धारः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal