Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 16
    ऋषिः - अवत्सार ऋषिः देवता - अग्निर्देवता छन्दः - गायत्री, स्वरः - षड्जः
    7

    अ॒स्य प्र॒त्नामनु॒ द्युत॑ꣳ शु॒क्रं दु॑दुह्रे॒ऽअह्र॑यः। पयः॑ सहस्र॒सामृषि॑म्॥१६॥

    स्वर सहित पद पाठ

    अ॒स्य। प्र॒त्नाम्। अनु॑। द्युत॑म्। शु॒क्रम्। दु॒दु॒ह्रे॒। अह्र॑यः। पयः॑। स॒ह॒स्र॒सामिति॑ सहस्र॒ऽसाम्। ऋषि॑म् ॥१६॥


    स्वर रहित मन्त्र

    अस्य प्रत्नामनु द्युतँ शुक्रन्दुदुह्रेऽअह्रयः । पयः सहस्रसामृषिम् ॥


    स्वर रहित पद पाठ

    अस्य। प्रत्नाम्। अनु। द्युतम्। शुक्रम्। दुदुह्रे। अह्रयः। पयः। सहस्रसामिति सहस्रऽसाम्। ऋषिम्॥१६॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 16
    Acknowledgment

    सपदार्थान्वयः -

     अह्रयः=विद्वांसः अह्नवन्ति=व्याप्नुवन्ति सर्वा विद्या ये ते विद्वांसः अस्य=अग्नेः सहस्रसां या सहस्राण्यसंख्यातानि कार्याणि सनोति ताम् ऋषिं कार्यसिद्धिप्राप्तिहेतुं प्रत्नाम् अनादिवर्तमानां पुराणीमनादिस्वरूपेण नित्यां द्युतं कारणस्थां दीप्तिं ज्ञात्वा शुक्रं शुद्धं कार्यकरं साधनं पयः जलं च अनुदुदुह्रे=प्रपूरयन्ति (पश्चात् प्रपूरयन्ति) ।। ३ । १६ ।।

    [अह्नयः=विद्वांसोऽस्याग्ने: ......प्रत्नां द्युतं ज्ञात्वा शुक्रं पयश्चानुदुदुह्ने]

    पदार्थः -

     (अस्य) अग्नेः (प्रत्नाम्) अनादिवर्त्तमानां पुराणीमनादिस्वरूपेण नित्याम् । प्रत्नमिति पुराणनामसु पठितम् ।।निघं॰ ३ ।२७ ।।(अनु) पश्चादर्थे (द्युतम्) कारणस्थां दीप्तिम् । अत्र द्युतदीप्तावित्यस्मात् क्विप् प्रत्ययः (शुक्रम्) शुद्धं कार्यकरं साधनम् (दुदुह्रे) प्रपूरयन्ति । अत्र वर्तमाने लिट् । इरयोरे ॥ अ० ६ । ४ । ७६ ॥अनेनेरेजित्यस्य स्थाने रे आदेश: (अह्नयः) अह्नवन्ति=व्याप्नुवन्ति सर्वा विद्या ये ते विद्वांसः । अत्राऽहव्याप्तावित्यस्माद्बाहुलकेनौणादिकः क्रिः प्रत्ययः महीधरेणायं ह्री लज्जायामित्यस्य प्रयोगोऽशुद्ध एव व्याख्यात इति (पयः) जलम् । पय इत्युदकनामसु पठितम् ॥ निघं॰ १ ।१२ ॥ (सहस्रसाम्) या सहस्त्राण्यसंख्यातानि कार्याणि सनोति ताम् (ऋषिम् ) कार्यसिद्धिप्राप्तिहेतुम् । अत्रेगुपधात्कित् ॥ उ० ४ ।१२० । अनेन ऋषी गतावित्यस्माद्धातोरिन्प्रत्ययः ॥ अयं मंत्रः शत० २ । ३ । २ । १५ व्याख्यातः ।। १६ ।।

    भावार्थः -

    मनुष्यैर्यथाग्नेस्स्वगुणसहितस्य कारणरूपेणानादित्वेन नित्यत्वं विज्ञेयमस्ति, तथैवान्येषामपि जगत्स्थानां कार्यद्रव्याणां कारणरूपेणानादित्वं वेदितव्यम् ।

    [तात्पर्यमाह--]

    एतद्विदित्वैतानग्न्यादीन् पदार्थान् कार्येषूपकृत्य सर्वे व्यवहारा: संसाधनीया इति ॥ ३ । १६ ।।

    विशेषः -

    अवत्सारः। अग्निः=[भौति अग्नि ] ।गायत्री ।षड्जः ।।

    इस भाष्य को एडिट करें
    Top