Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 5/ मन्त्र 28
    ऋषिः - औतथ्यो दीर्घतमा ऋषिः देवता - यज्ञो देवता छन्दः - आर्षी जगती स्वरः - निषादः
    0

    ध्रु॒वासि॑ ध्रु॒वोऽयं यज॑मानो॒ऽस्मिन्ना॒यत॑ने प्र॒जया॑ प॒शुभि॑र्भूयात्। घृ॒तेन॑ द्यावापृथिवी पूर्येथा॒मिन्द्र॑स्य छ॒दिर॑सि विश्वज॒नस्य॑ छा॒या॥२८॥

    स्वर सहित पद पाठ

    ध्रु॒वा। अ॒सि॒। ध्रु॒वः। अ॒यम्। यज॑मानः। अ॒स्मिन्। आ॒यत॑न॒ इत्या॒ऽयत॑ने। प्र॒जयेति॑ प्र॒ऽजया॑। प॒शुभि॒रिति॑ प॒शुऽभिः॑। भू॒या॒त्। घृ॒तेन॑। द्या॒वा॒पृ॒थि॒वी॒ऽइति॑ द्यावापृथिवी। पू॒र्ये॒था॒म्। इन्द्र॑स्य। छ॒दिः। अ॒सि॒। वि॒श्व॒ज॒नस्येति॑ विश्वऽज॒नस्य॑। छा॒या ॥२८॥


    स्वर रहित मन्त्र

    धु्रवासि धु्रवो यँयजमानो स्मिन्नायतने प्रजया पशुभिर्भूयात् । घृतेन द्यावापृथिवी पूर्येथामिन्द्रस्य च्छदिरसि विश्वजनस्य च्छाया ॥


    स्वर रहित पद पाठ

    ध्रुवा। असि। ध्रुवः। अयम्। यजमानः। अस्मिन्। आयतन इत्याऽयतने। प्रजयेति प्रऽजया। पशुभिरिति पशुऽभिः। भूयात्। घृतेन। द्यावापृथिवीऽइति द्यावापृथिवी। पूर्येथाम्। इन्द्रस्य। छदिः। असि। विश्वजनस्येति विश्वऽजनस्य। छाया॥२८॥

    यजुर्वेद - अध्याय » 5; मन्त्र » 28
    Acknowledgment

    सपदार्थान्वयः - हे यज्ञानुष्ठात्रि यजमानपत्नि ! यथा त्वमस्मिन् वर्तमाने यज्ञे आयतने=जगति, स्वस्थानेयज्ञे वा, आयान्ति=आगच्छन्ति प्राणिनो यस्मिँस्तज्जगत्तस्मिन् जगति स्थाने यज्ञे वा प्रजया राज्येन सन्तानसमूहेन वा पशुभिः हस्त्यश्वगवादिभिः सह ध्रुवा निश्चला असिभवसि, तथाऽयं वक्ष्यमाणः यजमानः यज्ञकर्त्ताअपि ध्रुवः निश्चलः अस्ति। युवां घृतेन आज्यादिना द्यावापृथिवी आकाशभूमी पूर्येथां=पूरणे कुर्यातम्। इन्द्रस्य परमैश्वर्यस्य छदिः दुःखापवारकत्वेन प्रापक: प्रापिका वा असि भवसि । विश्वजनस्य विश्वस्मिन् जगति सर्वस्य जनसमूहस्य छाया दुःखछेदकाश्रयो वा असि भवसि, यत्संगेन प्राणिसमूहः सुखी भूयात्,अस्मात्तां तं त्वां वयं प्रशंसामः ।। ५ । २८ ।। [हे यज्ञानुष्ठात्रि यजमानपत्नि! यथा त्वम्........ ध्रुवासि तथायं यजमानोऽपि ध्रुवोऽस्ति,इन्द्रस्यछदिरसि, यत्संगेन प्राणिसमूहः सुखी भूयात्, अस्मात्तां तं त्वां वयं प्रशंसामः]

    पदार्थः -
    (ध्रुवा) निश्चला (असि) भवसि (ध्रुव:) निश्चलः (अयम्) वक्ष्यमाण: (यजमानः) यज्ञकर्त्ता (अस्मिन्) वर्तमाने यज्ञे (आयतने) आयन्ति=आगच्छन्ति प्राणिनो यस्मिँस्तज्जगत्तस्मिन् जगति स्थाने यज्ञे वा (प्रजया) राज्येन सन्तानसमूहेन वा (पशुभिः) हस्त्यश्वगवादिभिः (भूयात्) (घृतेन) आज्यादिना (द्यावापृथिवी) आकाशभूमी (पूर्येथाम्) (इन्द्रस्य) परमैश्वर्यस्य (छदिः) दुःखापवारकत्वेन प्रापक: प्रापिका वा (असि) भवसि (विश्वजनस्य) विश्वस्मिन् जगति सर्वस्य जनसमूहस्य (छाया) दुःखछेदकाश्रयो वा ॥ अयं मंत्रः शत० ३। ६। १। १९-२२ व्याख्यातः ॥ २८ ॥

    भावार्थः - मनुष्यैर्याभ्यां यज्ञानुष्ठातृभ्यां यजमानतत्पत्नीभ्यां, येन यज्ञेन च निश्चला विद्या, सुखानि च प्राप्य, दुःखानि नश्येयुस्तौ सदा सत्कर्त्तव्यौ, यज्ञश्च सदाऽनुष्ठेयः ॥ ५ । २८॥

    विशेषः - औतथ्यो दीर्घतमाः । यज्ञः=स्पष्टम्॥ आर्षी जगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top