Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 25
    ऋषिः - वसिष्ठ ऋषिः देवता - प्रजापतिर्देवता छन्दः - स्वराट त्रिष्टुप् स्वरः - धैवतः
    0

    वाज॑स्य॒ नु प्र॑स॒व आब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑। सने॑मि॒ राजा॒ परि॑याति वि॒द्वान् प्र॒जां पुष्टिं॑ व॒र्धय॑मानोऽअ॒स्मे स्वाहा॑॥२५॥

    स्वर सहित पद पाठ

    वाज॑स्य। नु। प्र॒स॒व इति॑ प्रऽस॒वः। आ। ब॒भू॒व॒। इ॒मा। च॒। विश्वा॑। भुव॑नानि। स॒र्वतः॑। सने॑मि। राजा॑। परि॑। या॒ति॒। वि॒द्वान्। प्र॒जामिति॑ प्र॒ऽजाम्। पुष्टि॑म्। व॒र्धय॑मानः। अ॒स्मेऽइत्य॒स्मे। स्वाहा॑ ॥२५॥


    स्वर रहित मन्त्र

    वाजस्य नु प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः । सनेमि राजा परियाति विद्वान्प्रजाम्पुष्टिँवर्धयमानो ऽअस्मे स्वाहा ॥


    स्वर रहित पद पाठ

    वाजस्य। नु। प्रसव इति प्रऽसवः। आ। बभूव। इमा। च। विश्वा। भुवनानि। सर्वतः। सनेमि। राजा। परि। याति। विद्वान्। प्रजामिति प्रऽजाम्। पुष्टिम्। वर्धयमानः। अस्मेऽइत्यस्मे। स्वाहा॥२५॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 25
    Acknowledgment

    सपदार्थान्वयः - यो वाजस्य वेदादिशास्त्रोत्पन्नबोधस्य स्वाहा सत्यया नीत्या प्रसवः यः प्रसूते सः विद्वान् सकलविद्यावित् आ। बभूव समन्ता भवेत्, इमा इमानि विश्वा सर्वाणि भुवनानि माण्डलिकराजनिवासस्थानानि सनेमि सनातनेन नेमिना=धर्मेण सह वर्त्तमानं राज्यमण्डलं चप्रजां पालनीयां पुष्टिं पोषणं नु शीघ्रं[सर्वतः] वर्धयमानः परियाति प्राप्नोति, सोऽस्मे अस्माकं राजा वेदोक्तराजगुणैः प्रकाशमान: भवतु ।। ९ । २५ ।। [यो......स्वाहा.......विद्वानाबभूव, इमा विश्वाभुवनानि सनेमि च प्रजां पुष्टिं नु [सर्वतः] वर्धयमानः परियाति सोऽस्मे राजा भवतु]

    पदार्थः -
    (वाजस्य) वेदादिशास्त्रोत्पन्नबोधस्य (नु) शीघ्रम् (प्रसव:) य: प्रसूते सः (आ) समन्तात् (बभूव) भवेत् (इमा) इमानि (च) (विश्वा) सर्वाणि (भुवनानि) माण्डलिकराजनिवासस्थानानि (सर्वतः) (सनेमि) सनातनेन नेमिना=धर्मेण सह वर्तमानं राज्यमण्डलम् (राजा) वेदोक्तराजगुणैः प्रकाशमान: (परि) (याति) प्राप्नोति ( विद्वान्) सकलविद्यावित् (प्रजाम्) पालनीयाम् (पुष्टिम्) पोषणम् (वर्धयमानः) (अस्मे) अस्माकम् (स्वाहा) सत्यया नीत्या ।। अयं मन्त्रः शत० ५।२।२।७ व्याख्यातः ।। २५ ।।

    भावार्थः - ईश्वरोऽभिवदति--हे मनुष्याः ! यूयं यः प्रशंसितगुणकर्मस्वभावो राज्यं रक्षितुं समर्थो भवेत् तं सभाध्यक्षं कृत्वाऽऽप्ततनीत्या साम्राज्यं कुरुतेति ।। ९। २५ ।।

    भावार्थ पदार्थः - स्वाहा=आप्तनीत्या । विद्वान्=प्रशंसितगुणकर्मस्वभावः । राजा=सभाध्यक्षः ॥

    विशेषः - वसिष्ठः । प्रजापतिः=राजा। स्वराट् त्रिष्टुप् । धैवतः ।।

    इस भाष्य को एडिट करें
    Top