Loading...
ऋग्वेद मण्डल - 10 के सूक्त 65 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 65/ मन्त्र 1
    ऋषिः - वसुकर्णो वासुक्रः देवता - विश्वेदेवा: छन्दः - निचृज्जगती स्वरः - निषादः

    अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः । आ॒दि॒त्या विष्णु॑र्म॒रुत॒: स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पति॑: ॥

    स्वर सहित पद पाठ

    अ॒ग्निः । इन्द्रः॑ । वरु॑णः । मि॒त्रः । आ॒र्य॒मा । वा॒युः । पू॒षा । सर॑स्वती । स॒ऽजोष॑सः । आ॒दि॒त्याः । विष्णुः॑ । म॒रुतः॑ । स्वः॑ । बृ॒हत् । सोमः॑ । रु॒द्रः । अदि॑तिः । ब्रह्म॑णः । पतिः॑ ॥


    स्वर रहित मन्त्र

    अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः । आदित्या विष्णुर्मरुत: स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पति: ॥

    स्वर रहित पद पाठ

    अग्निः । इन्द्रः । वरुणः । मित्रः । आर्यमा । वायुः । पूषा । सरस्वती । सऽजोषसः । आदित्याः । विष्णुः । मरुतः । स्वः । बृहत् । सोमः । रुद्रः । अदितिः । ब्रह्मणः । पतिः ॥ १०.६५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 65; मन्त्र » 1
    अष्टक » 8; अध्याय » 2; वर्ग » 9; मन्त्र » 1

    भावार्थ - माणसांनी पृथ्वीपासून आकाशापर्यंत पदार्थांना, परमात्मा व मुक्ती यांचे स्वरूप जाणले पाहिजे. ते जाणून यथायोग्य लाभ घेणे, परमात्म्याची स्तुती, प्रार्थना, उपासना व शेवटी मुक्ती प्राप्त करणे मानवाचे लक्ष्य आहे. ॥१॥

    इस भाष्य को एडिट करें
    Top