अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 28
भव॑ राज॒न्यज॑मानाय मृड पशू॒नां हि प॑शु॒पति॑र्ब॒भूथ॑। यः श्र॒द्दधा॑ति॒ सन्ति॑ दे॒वा इति॒ चतु॑ष्पदे द्वि॒पदे॑ऽस्य मृड ॥
स्वर सहित पद पाठभव॑ । रा॒ज॒न् । यज॑मानाय । मृ॒ड॒ । प॒शू॒नाम् । हि । प॒शु॒ऽपति॑: । ब॒भूथ॑ । य: । श्र॒त्ऽदधा॑ति । सन्ति॑ । दे॒वा: । इति॑ । चतु॑:ऽपदे । द्वि॒ऽपदे॑ । अ॒स्य॒ । मृ॒डे॒ ॥२.२८॥
स्वर रहित मन्त्र
भव राजन्यजमानाय मृड पशूनां हि पशुपतिर्बभूथ। यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ॥
स्वर रहित पद पाठभव । राजन् । यजमानाय । मृड । पशूनाम् । हि । पशुऽपति: । बभूथ । य: । श्रत्ऽदधाति । सन्ति । देवा: । इति । चतु:ऽपदे । द्विऽपदे । अस्य । मृडे ॥२.२८॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 28
Translation -
O king Bhava, be gracious to the sacrificer, for thou hast become cattle-lord of cattle; whoever has faith, saying "the gods are", be thou gracious to his bipeds (and) quadrupeds.