Loading...
ऋग्वेद मण्डल - 7 के सूक्त 101 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 101/ मन्त्र 3
    ऋषिः - वसिष्ठः कुमारो वाग्नेयः देवता - पर्जन्यः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    स्त॒रीरु॑ त्व॒द्भव॑ति॒ सूत॑ उ त्वद्यथाव॒शं त॒न्वं॑ चक्र ए॒षः । पि॒तुः पय॒: प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ॥

    स्वर सहित पद पाठ

    स्त॒रीः । ऊँ॒ इति॑ । त्व॒त् । भव॑ति । सूतः॑ । ऊँ॒ इति॑ । त्व॒त् । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः । पि॒तुः । पयः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । मा॒ता । तेन॑ । पि॒ता । व॒र्ध॒ते॒ । तेन॑ । पु॒त्रः ॥


    स्वर रहित मन्त्र

    स्तरीरु त्वद्भवति सूत उ त्वद्यथावशं तन्वं चक्र एषः । पितुः पय: प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥

    स्वर रहित पद पाठ

    स्तरीः । ऊँ इति । त्वत् । भवति । सूतः । ऊँ इति । त्वत् । यथाऽवशम् । तन्वम् । चक्रे । एषः । पितुः । पयः । प्रति । गृभ्णाति । माता । तेन । पिता । वर्धते । तेन । पुत्रः ॥ ७.१०१.३

    ऋग्वेद - मण्डल » 7; सूक्त » 101; मन्त्र » 3
    अष्टक » 5; अध्याय » 7; वर्ग » 1; मन्त्र » 3

    पदार्थः -
    (त्वत्) एको मेघः (स्तरीः) नवप्रसूता गौरिव (उ, भवति) निश्चितं भवति तथा (सूते) वर्षत्यपि (त्वत्) अन्यः (एषः) असौ मेघः (यथावशम्) यथाकामं (तन्वम्) स्वशरीरं (चक्रे) रचयति च (पितुः) पितुरिव दिवः (माता, पयः, प्रतिगृभ्णाति) मातेव पृथ्वी जलमादत्ते (तेन) तेन जलादानेन (पिता, वर्धते) द्यौः, प्रकाशते (तेन) तेनैव हेतुना (पुत्रः) प्राणिसङ्घ एव पुत्रोऽपि समेधते ॥३॥

    इस भाष्य को एडिट करें
    Top