Loading...
ऋग्वेद मण्डल - 7 के सूक्त 64 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 64/ मन्त्र 3
    ऋषिः - वसिष्ठः देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् स्वरः - धैवतः

    मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि॑र्नयन्तु । ब्रव॒द्यथा॑ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो॑पाः ॥

    स्वर सहित पद पाठ

    मि॒त्रः । तत् । नः॒ । वरु॑णः । दे॒वः । अ॒र्यः । प्र । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । न॒य॒न्तु॒ । ब्रव॑त् । यथा॑ । नः॒ । आत् । अ॒रिः । सु॒ऽदासे॑ । इ॒षा । म॒दे॒म॒ । स॒ह । दे॒वऽगो॑पाः ॥


    स्वर रहित मन्त्र

    मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु । ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ॥

    स्वर रहित पद पाठ

    मित्रः । तत् । नः । वरुणः । देवः । अर्यः । प्र । साधिष्ठेभिः । पथिऽभिः । नयन्तु । ब्रवत् । यथा । नः । आत् । अरिः । सुऽदासे । इषा । मदेम । सह । देवऽगोपाः ॥ ७.६४.३

    ऋग्वेद - मण्डल » 7; सूक्त » 64; मन्त्र » 3
    अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 3

    पदार्थः -
    हे राजानः भवन्तः (तत्) सः (मित्रः) अध्यापकः (वरुणः) उपदेशकश्च (अर्यः) न्यायाधीशः (देवः) विद्वान् इमे सर्वे (प्र, साधिष्ठेभिः) शुभसाधनवद्भिः (पथिभिः) मार्गैः (नयन्तु) गमयन्तु, अन्यच्च (देवगोपाः) राजजनैः तथा प्रजाजनैः (सह) परस्परं मिलित्वा (इषा) ऐश्वर्येण (मदेम) हृष्येम, अन्यच्च (सुदासे) उत्तमदानाय (अरिः) अर्ति गच्छति यथातत्त्वं न्यायं करोतीति न्यायकारी परमात्मा (नः) अस्मान्प्रति (यथा) येन प्रकारेण (आत्) सदैव (ब्रवत्) उपदिशति एवं भवन्तः (नः) अस्मान्प्रति उपदिशन्तु ॥३॥

    इस भाष्य को एडिट करें
    Top