ऋग्वेद - मण्डल 7/ सूक्त 66/ मन्त्र 3
ता न॑: स्ति॒पा त॑नू॒पा वरु॑ण जरितॄ॒णाम् । मित्र॑ सा॒धय॑तं॒ धिय॑: ॥
स्वर सहित पद पाठता । नः॒ । स्ति॒ऽपा । त॒नू॒ऽपा । वरु॑ण । ज॒रि॒तॄ॒णाम् । मित्र॑ । सा॒धय॑तम् । धियः॑ ॥
स्वर रहित मन्त्र
ता न: स्तिपा तनूपा वरुण जरितॄणाम् । मित्र साधयतं धिय: ॥
स्वर रहित पद पाठता । नः । स्तिऽपा । तनूऽपा । वरुण । जरितॄणाम् । मित्र । साधयतम् । धियः ॥ ७.६६.३
ऋग्वेद - मण्डल » 7; सूक्त » 66; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 8; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 8; मन्त्र » 3
पदार्थः -
(मित्र) हे सर्वप्रिय परमात्मन् ! भवान् (जरितॄणाम्) क्षणभङ्गुरशरीरवतां पुंसां (धियः) बुद्धीः (साधयतं) साधनवतीः करोतु। (वरुण) हे सर्ववरणीय परमात्मन् ! भवान् (नः) अस्माकं (स्तिपाः) गृहाणि पवित्रीकरोतु यतश्च (ता) उक्तगुणवान्भवान् (तनूपा) प्राणिमात्रस्योद्धारकोऽस्ति, अतो भवताहमप्युद्धरणीयः ॥३॥