Loading...
ऋग्वेद मण्डल - 7 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 74/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - अश्विनौ छन्दः - निचृद्बृहती स्वरः - मध्यमः

    इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वन्ते अश्विना । अ॒यं वा॑म॒ह्वेऽव॑से शचीवसू॒ विशं॑विशं॒ हि गच्छ॑थः ॥

    स्वर सहित पद पाठ

    इ॒माः । ऊँ॒ इति॑ । वा॒म् । दिवि॑ष्टयः । उ॒स्रा । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ । अ॒यम् । वा॒म् । अ॒ह्वे । अव॑से । श॒ची॒व॒सू॒ इति॑ शचीऽवसू॒ । विश॑म्ऽविशम् । हि । गच्छ॑थः ॥


    स्वर रहित मन्त्र

    इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥

    स्वर रहित पद पाठ

    इमाः । ऊँ इति । वाम् । दिविष्टयः । उस्रा । हवन्ते । अश्विना । अयम् । वाम् । अह्वे । अवसे । शचीवसू इति शचीऽवसू । विशम्ऽविशम् । हि । गच्छथः ॥ ७.७४.१

    ऋग्वेद - मण्डल » 7; सूक्त » 74; मन्त्र » 1
    अष्टक » 5; अध्याय » 5; वर्ग » 21; मन्त्र » 1

    पदार्थः -
    (शचीवसू) विद्युदग्निविद्याविदः (अश्विना) अध्यापकोपदेशकौ ! (दिविष्टयः) स्वर्गकामाः (उस्रा) यजमाना (वाम्) युष्मान् (हवन्ते) आह्वयन्ते, अतो यूयं (इमाः) इमा विद्याः (वाम्) तान् उपदिशत (उ) अथ च (हि) निश्चयेन (गच्छथः) पर्य्यटन्तः (विशंविशम्) प्रतिमनुष्यं विद्वांसं कुरुत येन (अयम्) एते (अवसे) आत्मानं रक्षन्तु (अह्वे) युष्मान् आह्वयन्तु च ॥१॥

    इस भाष्य को एडिट करें
    Top